________________
प्राकृतव्याकरणम् युष्माकमिदं मौष्माकम् । तुम्हेच्चयं । एवम् अम्हेच्चयं ।। ॥ १४९ ॥
वतेवः । ८२ | १५०।... - वतेः प्रत्ययस्य द्विरुक्तो वो भवति ॥ महुरव्व पाडलिंउत्ते पासाया ॥ १५० ॥
सर्वाङ्गादीनस्येकः । ८।२ । १५१ । सर्वाङ्गात् सर्वादेः पथ्यङ्ग (हे० १७-९० ) इत्यादिना विहितस्येनस्य स्थाने इक इत्यादेशो भवति ॥ सर्वाङ्गीणः। सव्वगिओ॥ १५१ ॥
पथो णस्येकट् । ८ | २ | १५२ । 'नित्यं णः पन्थश्च' (हे० ६-८९) इति यः पयो को विहितस्तस्य इकट् भवति ॥ पान्थः । पहिओ ॥ १५२ ॥
ईयस्यात्मनो णयः । ८ । २।१५३ ।
आत्मनः परस्य ईयस्य णय इत्यादेशो भवति ॥ आ. त्मीयम् । अप्पणवं ॥१५३॥
त्वस्य डिमा-तणौ वा । ८।२ । १५४ । । त्वप्रत्ययस्य डिमा त्तण इत्यादेशो वा भवतः॥ पी. णिमा। पुप्फिमा । पीणत्तणं । पुप्फत्तणं । पले। पीणत्तं । पुष्फत्तं ॥ इम्नः पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु अस्य विधिः॥ पीनता इत्यस्य प्राकृते पीणया इति भवति । पीणदा इति तु भाषान्तरे । तेनेह तलो वा न क्रियते ॥ ॥१५४॥
अनोगत्तैलस्य डेलः । ८।२।१५५। ' होठवर्जिताच्छब्दात्परस्य तैलप्रत्ययस्य डेल हत्या.