________________
हेमन्दानुशासनस्य
प्लक्षे लात् | ८ | २ | १०३ ।
लक्षशब्दे संयुक्तस्यान्त्यव्यञ्जनाल्लात्पूर्वोद् भवति ॥ पलक्खो ॥ १०३ ॥
[ ६८८ ]
- श्री ही कृत्स्न-क्रिया दिष्ट्यास्वित् । ८ । २ । १०४ ।
एषु संयुक्तस्यात्त्यव्यञ्जनात्पूर्व इकारो भवति ॥ है । अरिहइ । अरिहा । गरिहा । बरिहो || श्री । सिरी । ही। हिरी ॥ हृीतः हिरीओ || अह्वीकः । अहिरीओ ॥ कृत्स्नः । कसिणो ॥ क्रिया । किरिआ || आर्षे तु हयं नाणं कियाहीणं ॥ दिष्टया । दिट्टिआ ॥ १०४ ॥
र्श-र्ष-तप्त-वज्रे । ८ । २ । १०५ ।
शर्षयोस्तप्तवज्रयोश्च संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा भवति ॥ र्श । आयरिसो आयंसो । सुदरिसणो सुदंसणो । दरिसणं दंसणं । र्ष । वरिसं वासं । वरिसा वासा । वरिस-सयं वाससयं ॥ व्यवस्थितविभाषया क्वचिन्नित्यम् । परामरिसो । हरिसो । अमरिसो ॥ तप्त । तविओ तत्तो ॥ वज्र । वरं वज्जं ॥ १०५ ॥
लात् । ८ । २ । १०६ ।
संयुक्तस्यान्त्यव्यञ्जनाल्लात्पूर्व इद् भवति ॥ किलिनं । किलि । सिलिङ्कं । पिलुङ्कं । पिलोसो । सिलिम्हो । सिलेसो । सुकिलं । सुइलं । सिलोओ । किलेसो । अम्बिलं । गिलाइ | गिलाणं । मिलाइ । मिलाणं । किलम्मइ । किल. न्तं । क्वचिन्न भवति ॥ कमो । पवो । पिप्पयो । सुक्क-पक्खो ॥ उत्प्लावयति । उपावे ॥ १०६ ॥