________________
[६८aj
प्राकृतव्याकरणम्
स-होः । ८।२।९३ । रेफहकारयोदित्वं न भवति ॥ रेफः शेषो नास्ति । आदेश। सुन्देरं। बह्मचेरं । परन्तं ॥ शेषस्य हस्य । विहलो॥ आदेशस्य । कहावणो ।। ९३ ॥
धृष्टद्युम्ने णः । ८।२।९४ । धृष्टद्युम्नशब्दे आदेशस्य णस्य द्वित्वं न भवति ॥ पहज्जुणो ॥ ९४॥
कर्णिकारे वा । ८।२ । ९५ । कर्णिकारशब्दे शेषस्य णस्य द्वित्वं वा न भवति ॥ कणिआरो कण्णिआरो ॥ ९५ ॥
दृप्ते । ८ । २ । ९६ । । हप्तशब्दे शेषस्य द्वित्वं न भवति ॥ दरिअ-सीहेण ॥९६ ॥
समासे वा । ८।२। ९७।' शेषादेशयोःसमासे द्वित्वं वा भवति ॥ नइ-ग्गामो नइ. गामो। कुसुम पयरो कुसुम-पयरो। देव-त्थुई। देव थुई। हर-क्लन्दाहरखन्दा।आणाल-क्खम्भो आणाल-खम्भो। पहुलाधिकारादशेषादेशयोरपि। स-पिवासो स-पिवासो। पद्ध-फलो बद्ध-प्फलो। मलय सिहर क्खण्डं मलय सिहरखण्ड । पम्मुकं पमुकं । अइंसणं असणं । पडिक्कूलं परिकूलं । तेल्लोकं तेलोकं इत्यादि ॥ ९७ ॥
तैलादौ । ८।२। ९८ । तैलादिषु अनादौ यथादर्शनमन्त्यस्यानन्यस्य च व्यञ्जनस्य द्वित्वं भवति। तेल्लं । मण्डको। वेहलं ।