________________
[६८०] प्राकृतव्याकरणम् एत इति किम् । पज्जन्तो ॥ ६५ ॥
आश्चये। ८।२।६६ । : आश्चर्ये एतः परस्य यस्य रो भवति ॥ अच्छेरं ॥ एत इत्येव । अच्छरिअं॥६६॥
अतो रिआर-रिज्ज-रीअं। ८।२।६७। .. __ आश्चर्ये अकारात्परस्य यस्य रिअ अर रिज्ज रीज इत्येते आदेशा भवन्ति । अच्छरिअं अच्छअरं अच्छरि. ज्जं अच्छरीअं ॥ अत इति किम् । अच्छेरं ॥ ६७ ॥
पर्यस्त--पर्याण-सौकुमार्ये लः ।२।६८। एषु यस्य ल्लो भवति ॥ पर्यस्तं पल्टं पल्लत्थं। पल्लाणं। सोअमल्लं ।। पल्लको इति च पल्यङ्कशब्दस्य यलोपे द्वित्वे च॥ पलिअङ्को इत्यपि चौर्यसमत्वात् ॥ ६८ ॥
बृहस्पति-वनस्पत्योः सो वा ।।२।६९॥ अनयोः संयुक्तस्य सो वा भवति ॥ बहस्सई। बहफई। भयस्सई भयप्फई । वणस्सई वणप्फई ॥ ६९ ॥
बाष्पे होश्रुणि । ८।२।७। बाष्पशब्दे संयुक्तस्य हो भवति, अश्रुण्यभिधेये । बाहो नेत्रजलम् ॥ अश्रुणीति किम् ॥ बप्फो ऊष्मा ॥७॥
कार्षापणे । ८ । २ । ७१। कार्षापणे संयुक्तस्य हो भवति ॥ काहावणो॥ कथं कहावणो । 'हस्वः संयोगे' (८-१-८४ ) इति पूर्वमेव हस्वत्वे पश्चादादेशे। कर्षापणशब्दस्य वा भविष्यति ॥