________________
[६७६ ]
प्राकृतव्याकरणम्
संमर्द - वितर्दि-विच्छर्द-च्छर्दि - कपर्द - मर्दिते-र्दस्य | ८ | २ | ३६ |
एषु र्वस्य त्वं भवति ॥ सम्मड़ो । विअड्डी । विच्छडो । छड्डुइ । छड्डी । कवड्डो । मडिओ | सम्मडिओ ॥ ३६ ॥
गर्दभे वा | ८ | २ | ३७ ।
गर्दमेर्दस्य डो वा भवति ॥ गइहो । गद्दहो ॥ ३७ ॥ कन्दरिका - भिन्दिपाले ण्डः | ८ | २ | ३८ |
अनयोः संयुक्तस्य ण्डो भवति ॥ कण्डलिआ । मिण्डिवालो ॥ ३८ ॥
स्तब्धे ठ–दौ । ८ । २ । ३९॥
स्तब्धे संयुक्तयोर्यथाक्रमं ठढौ भवतः ॥ ठड्ढो ॥ ३९ ॥ दग्ध - विदग्ध - वृद्धि - वृद्धे ढः । ८ । २ । ४० ।
एषु संयुक्तस्य ढो भवति ।। दड्ढो । विअड्ढो । वुड्ढी । बुड्ढो । कचिन भवति । विद्ध-कह-निरूविअं ॥ ४० ॥ श्रद्धर्द्धि - मूर्धन्ते वा । ८ । २ । ४१ ।
एषु अन्ते वर्तमानस्य संयुक्तस्य ढो वा भवति ॥ सड्ढा सद्धा । इड्ढी रिद्धी । मुण्डा मुद्धा | अहं अद्धं ॥ ॥ ४१ ॥
म्नज्ञोर्णः । ८ । २ । ४२ |
अनयोर्णो भवति ॥ न । निष्णं । पज्जुण्णो ॥ ज्ञ । गाणं | सण्णा । पण्णा । विण्णाणं ॥ ४२ ॥