________________
[६७२] प्राकृतव्याकरणम्
त्व-ध्व-द-चांच-छ-ज-शाः कचित् ।८।२।१५)
एषां यथासंख्यमेते कचित् भवन्ति ॥ भुक्त्वा। भोचा।। ज्ञात्वा । णचा ॥ श्रुत्वा । सोचा ॥ पृथ्वी । पिच्छी ॥ वि. द्वान् । विरं ॥ बुद्धधा । बुज्झा ॥ भोच्चा सयलं पिच्छि विजं बुज्झा अणण्णय-ग्गामि। चहऊण तवं काउंसन्ती पत्तो सिवं परमं ॥१५॥ वृश्चिके श्वेचुर्वा । ८ । २ । १६ ।
वृश्चिके श्वेः सस्वरस्य स्थाने चुरादेशो वा भवति । छापवादः ॥ विञ्चुओ विंचुओ। पक्षे । विञ्छिओ॥१६॥
छोक्ष्यादौ । ८।२।१७।। ____ अक्ष्यादिषु संयुक्तस्य छो भवति । वस्यापवादः ॥ अच्छि । उच्छ् । लच्छी। कच्छो । छी।छीरं। सरिच्छो। वच्छो। मच्छिआ। छत्तं । छुहा। दच्छो। कुच्छी। वच्छं। छुण्णो । कच्छा । छारो । कुच्छेअयं । छुरो । उच्छा। छयं । सारिच्छे । अक्षि । इक्षु । लक्ष्मी । कक्ष। क्षुत । क्षीर । स. हक्ष । वृक्ष । मक्षिका । क्षेत्र । क्षु । दक्ष । कुक्षि । पक्षम् । क्षुण्ण । कक्षा । धार । कौशेयकाक्षुर । उक्षन् ।क्षत । सादृश्य । कचित् स्थगितशन्देपि । छइअं॥आर्षे । इक्खू । खीरं । सारिक्वमित्याद्यपि दृश्यते ॥ १७ ॥
क्षमायां कौ । ८।२।१८। कौ पृषिश्यां वर्तमाने क्षमाशब्दे संयुक्तस्य छो भवति। छमा पृथिवी । लाक्षणिकस्यापि । क्ष्मादेशस्य भवति । क्ष्मा । छमा॥ काविती किम् । खमा क्षान्ति ॥ १८ ॥