________________
अर्ह द्वितीय पादः संयुक्तस्य | ८ | २ | १ |
अधिकारोयं " ज्यायामीत् " ( ८- २ - ११५ ) इति यावत् । यदित् । यदित उर्ध्वमनुक्रमिष्यामस्तत्संयुक्तस्येति बेदितव्यम् ॥ १ ॥
शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा । ८ । २ । २ ।
एषु संयुक्तस्य को वा भवति ॥ सक्को सत्तो । मुक्को मुत्तो को दट्ठो । लुको लुग्गो । माउकं माउत्तणं ॥ २ ॥ क्षः खः कचित्तु छ - झौ । ८ । २ । ३ ।
क्षस्य खो भवति । कचित्तु छझावपि ॥ खओ । लक्खणं । कचित्तु छझावपि । खीणं । छीणं । झीणं । झिजइ ॥ ३ ॥
ष्क - स्कयोर्नाम्नि | ८ | २ । ४ ।
अनयोर्नानि संज्ञायां खो भवति ।। ष्क । पोक्खरं । पोक्खरिणी । निक्खं ॥ स्क । खन्धो । खन्धावारो । अवक्खन्दो | नाम्नीति किम् । दुकरं । निकम्पं । निकओ । नमोकारो । सक्कयं । सक्कारो । तक्कारो ॥ ४॥ शुष्क - स्कन्दे वा । ८ । २ । ५।
अनयोः ष्कस्कयोः खो वा भवति ॥ सुक्खं सुकं । खन्दो कन्दो ॥ ५ ॥
क्ष्वेटका दौ । ८ । २ । ६ । क्ष्टकादिषु संयुक्तस्य खो भवति ॥ खेडओ | क्ष्वेट