________________
[ ६६६ ]
प्राकृतव्याकरणम्
सत्कार । सकुमार । किरात । परिखा । परिघ । पारिभद्र । कातर । रुग्ण । अपद्वार । भ्रमर । जठर । बठर । निष्ठुर । इत्यादि || आर्षे दुबालसङ्गे इत्याद्यपि ॥ २५४ ॥ स्थूले लो रः । ८ । १ । २५५ ।
स्थूले लस्य रो भवति ॥ थोरं ॥ कथं थूलभद्दो । स्थूरस्य हरिद्रादिलत्वे भविष्यति ।। २५५ ।।
लाहल – लाङ्गल – लाङ्गूले वादेर्णः | ८|१| २५६ | एषु आदेर्लस्य णो वा भवति ॥ णाहलो । लाहलो । णङ्गलं । लङ्गलं । णङ्गूलं । लङ्गूलं ॥ २५६ ॥
ललाटे च | ८ | १ | २५७ ।
ललाटे च आदेर्लस्य णो भवति ॥ चकार आदेरनुटयर्थः ॥ णिडालं । णडालं ।। २५७ ।।
शबरे बो मः | ८ | १ | २५८ | शबरे बस्य मो भवति ॥ समरो ॥ २५८ ॥
स्वप्न - नीव्योर्वा । ८ । १ । २५९ । अनर्योर्वस्य मो वा भवति ॥ सिमिणो । सिविणो । नीमी नीवी ।। २५९ ।।
श - षोः सः । ८ । १ । २६० |
शकारवकारयोः सो भवति ॥ श । सहो । कुसो । निसंसो । सो । सामा । सुद्धं । दस । सोहह । विसह ॥ ष । सण्डो । निहसो । कसाओ । घोसइ ॥ उभयोरपि । सेसो । विसेसो ॥ २६० ॥