________________
[६६४] प्राकृतव्याकरणम्
भ्रमरे सो वा । ८।१ । २४४ । भ्रमरे मस्य सो वा भवति ॥ भमलो भमरो ॥२४४॥
आदेयों जः।८।१ । २४५ । पदार्यस्य जो भवति ॥ जसो । जमो । जाइ ॥ आदेरिति किम् । अवयवो । विणओ ॥ बहुलाधिकारात् सो.. पसर्गस्यानादेरपि । संजमो। संजोगो । अवजसो ॥ क्वचि. न भवति । पओओ॥ आर्षे लोपोऽपि । यथाख्यातम् । अहक्खायं ॥ यथाजातम् । अहाजायं ।। २४५ ॥
युष्मद्यर्थपरे तः । ८।१ । २४६ । युष्मच्छन्देऽर्थपरे यस्य तो भवति ॥ तुम्हारिसो।तु. म्हकेरो॥अर्थपर इति किम् । जुम्हदम्ह-पयरणं ॥२४६।।
यष्टयां लः । ८।१। २४७ । ___ यष्टयां यस्य लो भवति ॥लट्ठी । वेणु-लट्ठी। उच्छु - लट्ठी। महु-लट्ठी ॥२४७॥
वोत्तरीयानीय-तीन-कृद्ये ज्जः ।।१।२४० ___ उत्तरीयशब्दे अनीयतीयकृद्यप्रत्ययेषुच यस्य द्विरुक्तो जो वा भवति ॥ उत्तरिजं उत्तरीअं॥ अनीय । करणिलं करणी। विम्हयणिज्जं विम्हयणीअं। जवणिज्जं जव. णी॥तीय। बिइज्जो बीओ॥ कृद्य । पेज्जा पेआ॥ ॥२४८॥
छायायां होकान्तौ वा। ८।१ । २४९ ।
अकान्तौ वर्तमाने छायाशब्दे यस्य हो वा भवति ॥ वच्छस्स छाही वच्छस्स छाया। आतपाभावः सच्छाहं