________________
स्वोपज्ञवृत्तिसहितम् [६६१] _ . प्रदीपि-दोहदे लः ।।१।२२१।।
प्रपूर्व दीप्यतो धातौ दोहदशब्दे च दस्य लो भवति ॥ पलीवेइ । पलितं । दोहलो ॥ २२१ ॥
कदम्बे वा ।। ८।१ । १२२ । कदम्बशब्दे दस्य लो वा भवति ॥ कलम्बो कयम्बो ॥ २२२ ॥
दीपौ धो वा । ८।१ । २२३ । दीप्यतो दस्य धो वा भवति॥ धिप्पइ। दिप्पइ ॥२२३॥
कदर्थिते वः । ८।१। २२४ । कर्थिते दस्य वो भवति ॥ कवडिओ॥ २२४ ॥ .
ककुदे हः। ८ । १ । २२५ । ककुदे दस्य हो भवति ।। कउहं ॥ २२५ ।।
निषधे धो ढः । ८।१।२२६ । निषधे धस्य ढो भवति ॥ निसढो॥ २२६ ॥
वौषधे । ८।१ । २२७ । औषधे धस्य ढोवा भवति। ओसढं। ओसहं ॥२२७॥
नो णः।८।१ । २२८ । स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणवं । मयणो । वयणं । नयणं । माणइ । आर्षे । आरनालं । अनिलो । अनलो। इत्याद्यपि ॥ २२८ ॥
.' वादौ । ८।१ । २२९ । असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥