________________
[६२०] प्राकृतव्याकरणम् सु-उरिसो सूरिसो॥ क्वचित् संधिरेव । सालाहणो। चक्काओ॥ अत एव प्रतिषेधात् समासेऽपि स्वरस्य संधी भिन्नपदत्वम् ॥ ८॥
त्यादेः । ८।१।९। तिबादीनां स्वरस्य स्वरे परे सन्धिर्न भवति ॥ भवति इह । होइ इह ॥९॥
लुक् । ८।१ । १०। स्वरस्य स्वरे परे बहुलं लुग् भवति ॥ त्रिदशेशः । तिअसीसो ॥ निःश्वासोच्छ्वासौ। नीसासूसासा ॥१०॥
अन्त्यव्यञ्जनस्य । ८।१ । ११ । शब्दानां यद् अन्त्यब्यञ्जनं तस्य लुग् भवति ॥जाव । ताव । जसो । तमो । जम्मो॥समासे तु वाक्यविभक्त्यः पेक्षायाम् अन्त्यत्वम् अनन्त्यत्वं च । तेनोभयमपि भवति । सद्भिक्षुः। सभिक्खू । सजनः। सजणो॥ एतद्गुणाः। एभ-गुणा ॥ तद्गुणाः । तरगुणा ॥ ११ ॥
न श्रदुदोः । ८ । १ । १२ । श्रद् उद् इत्येतयारेन्त्यव्यञ्जनस्य लग् न भवति ॥ सहहि । सद्धा। उग्गयं । उन्नयं ॥ १२ ॥
निदुरोर्वा । ८।१ । १३ । निर दुर् इत्येतयोरन्त्यव्यञ्जनस्य वालग् न भवति॥ निस्सहं नीसहं दुस्सहो दूसहो । दुक्खिओ दुहिओ ॥१३॥
स्वरेऽन्तरश्च । ८ । १।१४।