________________
-
-
[५४४] हैमशब्दानुशासनस्य
सूक्त-साम्नोरीयः । ७।२। ७१ । सूक्ते साम्नि चाथै मत्वर्थे ईयः स्यात् । अच्छावा. कीयं सूक्तम् , यज्ञायज्ञीयं साम ॥ ७१ ॥
लुप् वाऽध्यायाऽनुवाके ७ । २ । ७२ । अनयोर्मत्वर्थे ईयस्य लुप् वा स्यात् , लुविधेरेवेयः । गर्दभाण्डः, गर्दभाण्डीयोऽध्यायोऽनुवाको वा ।। ७२ ।।
विमुक्ताऽऽदेरण । ७।२।७३ । एभ्यो मत्वर्थेऽध्यायानुवाकयोरण स्यात् । वैमुक्तः, - दैवासुरः अध्यायोऽनुवाको वा ॥ ७३ ॥
घोषदादेरकः। ७२।७४ । .. एम्यो मत्वर्थेऽध्यायानुवाकेऽकः स्यात् । घोषदकः, .. गोषदकोऽध्यायादिः ।। ७४ ॥ . प्रकारे जातीयर् । ७ । २।७५।
स्यन्तात् षष्ट्यर्थेऽयं स्यात् , चेत् स्वन्तं प्रकारार्थम् । सामान्यस्य विशेषोऽविशेषान्तरानुयायी. प्रकारः । पटुजातीयः ॥ ७५॥
कोऽण्वादेः । ७।२ । ७६ । एभ्यस्तदस्य प्रकार इतिविषये कः स्यात । अणुका, स्थूलकः पटः ।। ७६ ॥
जीणे-गोमूत्राऽवदात-सुरा-यव-कृष्णात् शाल्या. च्छादन-सुराऽहिब्रीहि-तिले । ७।२।७७।
एभ्यो यथासङ्ख्यमेष्वर्थेषु तदस्य प्रकार इतिविषये कः स्यात् । जीर्णकः शालिः, गोमूत्रकमाच्छादनम् , अवदालिका सुरा, सुरफोहि।, यवको व्रीहिः, कृष्णाकास्तिला ॥ ७७ ।।