________________
[५४०] हैमशब्दानुशासनस्य मेधावी । रथिरः, रथिकः, रथी ।। ४१ ।।
कृपा-हृदयादालुः । ७। २ । ४२ । आभ्यां मत्वर्थे वाऽऽलुः स्यात् । कृपालुः, कृपावान् । हृदयालु, हृदयी ॥ ४२ ॥
केशादः । ७।२। ४३ । .. मत्वर्थे वो वा स्यात् । केशवः, केशवान , केशी॥
मण्यादिभ्यः । ७ । २ । ४४ । एभ्यो मत्वर्थे वः स्यात् । मणिवा, मणिमान् , हिरण्यवः, हिरण्यवान् ॥ ४४ ॥
हीनात् स्वाङ्गादः। ७।२।४५। - हीनत्वोपाधेः स्वाङ्गार्थात् मत्वर्थे अस्यात् । कर्णः। हीनादिति किम् । कर्णवान् ॥ ४५ ॥
अभ्राऽऽदिभ्यः। ७।२।४६ । एभ्यो मत्वर्थे : स्यात् । अभ्रं नमः, अशी मैत्रः॥ अस-तपस-माया-मेधा-स्रजो विन् ।७।२।४७।
असन्तात् , तपसादेश्व मत्वर्थे विन् स्यात् । यशस्वी, यशस्वान् , तपस्वी, मायावी, मायावान् , मेधावी, स्रग्वी ॥ ४७॥
आमयाद् दीर्घश्च । ७।२।४८ । अस्मात् मत्वर्थे विन् स्यात् , दीर्घश्चास्य । आमयावी, आमयवान् ॥ ४८॥
१ असन्तत्वेन विनि सिद्धेऽपि ज्योत्स्नादिभ्योऽण् प्राप्नोतु इव्यर्थः तपसः पृथगग्रहणं कृतम् , तेनागि परे तापस इत्यपि स्यात् ।