________________
[ ५२४ ]
हैमशब्दानुशासनस्य
frerssदिभ्यः स्नेहे तैलः | ७ | १ | १३६ ।
एभ्यस्तस्य स्नेहेऽर्थे तैलः स्यात् । तिलतैलम्, सर्षपतैलम् ।। १३६ ।
तत्र घटते कर्म्मणः | ७ | १ | १३७ । तत्रेति ङयन्तात् कर्मशब्दाद् घटते इत्यर्थे ठः स्यात् । कर्म्मठः ॥ १३७ ॥
तदस्य सञ्जातं तारकाऽऽदिभ्य इतः | ७ | १ | १३८ ।
तदिति स्यन्तेभ्य एभ्योऽस्येति षष्ठ्यर्थे इतः स्यात्, स्यन्तं सञ्जातं चेत् । तारकितं नभः, पुष्पितस्तरुः ॥ १३८ ॥ गर्भादप्राणिनि । ७ । १ । १३९ ।
गर्भात् तदस्य सञ्जातमित्यर्थे इतः स्यात्, न तु प्राणिनि । गर्भितो व्रीहिः ।। १३९ ॥
प्रमाणात् मात्र | ७ | १ | १४० । स्यन्तात् प्रमाणार्थात् षष्ठ्यर्थे मात्रद् स्यात् । आयामः प्रमाणम्' । जानुमात्रं जलम् तन्मात्री भूः ॥ १४० ॥ हस्ति-पुरुषाद वाऽण् | ७ | १ | १४१ | स्यन्ताभ्यां प्रमाणार्थाभ्यामाभ्यां षष्ठयर्थेऽणू वा स्यात् । हास्तिनम्, हस्तिमात्रम्, हस्तिदन्नम, हस्तिद्वयसं जलम् एवं पौरुषम् ॥ १४१ ॥
9
१ प्रमाणं द्विधा ऊर्ध्वतिर्यग्भेदात् । आयमूर्ध्वस्य, द्वितीयं च तिर्यग्मानस्योदाहरणम् । जानुनी प्रमाणमस्य जानुमात्रम् । टित्त्वात् " अणजेये..." सूत्राद् ङीप्रत्यये परे तन्मात्री । एवं दध्नटादावपि विग्रहः कार्यः । स्यन्तात् प्रथमान्तादित्यर्थः । हस्ती प्रमाणमस्य हास्तिनं जलम् ।