________________
[५१६]
हैमशब्दानुशासनस्य
व्रीहि-शालेरेयण् । ७ । १ । ८० । आभ्यां तस्य क्षेत्रे एयण स्यात् । त्रैहेयम्, शालेयम् ॥ यव-यवक - षष्टिकाद् यः । ७ । १ । ८१ ।
यवक्यम्,
एभ्यस्तस्य क्षेत्रे यः स्यात् । यव्यम् षष्टिक्यम् ॥ ८१ ॥
वाऽणु-भाषात् । ७ । १ । ८२ ।
आभ्यां तस्य क्षेत्रे यो वा स्यात् । अणव्यम्, आणवीनम् । माष्यम्, माषीणम् ॥ ८२ ॥
वोमा भङ्गा-तिलात् । ७ । १ । ८३ । एभ्यस्तस्य क्षेत्रेऽर्थे यो वा स्यात् । उम्यम्, ओमीनम् । भङ्ग्यम्, भाङ्गीनम् । तिल्यम्, तैलीनम् ॥ ८३ ॥ अलाब्वाश्च कटा रजसि । ७ । १ । ८४ । अस्माद् उमाssदेश्च तस्य रजस्यर्थे कटः स्यात् । अलाबूकटम्, उमाकटम्, भङ्गाकटम्, तिलकटम् ॥ ८४ ॥ अह्ना गम्येऽश्वाद् ईनञ् । ७ । १८५ । षष्ठ्यन्तादश्वात् एकेनाह्ना गम्येऽर्थे ईनञ् स्यात् । आश्वीनोऽध्वा || ८५ ॥
कुलात् जल्पे । ७ । १ । ८६ ।
षष्ठयन्तात् कुलात् जल्पेऽर्थे ईनञ् स्यात् । कौलीनः ॥ पील्वादेः कुणः पाके । । १ । ८७ ।
एभ्यस्तस्य पाके कुणः स्यात् । पीलुकुणः, शमीकुणः ।। कर्णादेर्मूले जाहः । ७ । १ । ८८ । एभ्यस्तस्य मूलेऽर्थे जाहः स्यात् । कर्णजाहम्, अक्षिजाहम् ॥ ८८ ॥