________________
[४७८] हेमशब्दानुशासनस्य
कुटिलिकाया अण । ६ । ४ । २६ । । अस्मात् टान्ताद् हरति अण् स्यात । कौटिलिकः कर्मारादिः ॥२६॥
'ओजसू-सहोऽम्भसो वर्तते । ६ । ४ । २७ ।
एभ्यः टान्तेभ्यो वर्त्तते इत्यर्थे इकण् स्यात् । औजसिक, साहसिका, आम्भसिकः ॥ २७॥
तं प्रत्यनोलीमेपकूलात् । ६।४। २८।। तमिति द्वितीयान्तात् प्रति-अनुपूर्वलोमन-ईपकूलान्ताद् वर्तते इत्यर्थे इकण स्यात्। प्रातिलोमिकः, आनुलोमिकः, प्रातीपिका, आन्वीपिका, प्रातिकूलिका, आनुकूलिकः ।।
परेर्मुख-पार्वात् ।।६।४।२१।। परिपूर्वमुखपाश्र्वान्ताद् द्वितीयान्ताद् वर्तते इत्यर्थे इकण् स्यात् । पारिमुखिकः, पारिपार्विकः ॥ २९ ॥
रक्ष छतोः। ६।४।३०। द्वितीयान्तादनयोरिकण् स्यात् । नागरिका, बादरिका ॥३०॥ पक्षि-मत्स्य-मृगार्थाद् ध्नति । ६।४।३१।
पक्ष्याद्यर्थात् द्वितीयान्ताद् घनत्यर्थे इकण् स्यात् । पाक्षिकः, मात्स्यिका, मार्गिकः ॥ ३१॥
परिपन्थात् तिष्ठति च ।६। ४ । ३२ । अस्माद् द्वितीयान्तात् तिष्ठति घ्नति, चेकण् स्यात् । पारिपन्थिकचौरः ॥३२॥
१औजस् सहस् सम्भस् इति त्रिभ्यः। भोजमा सहसाऽम्भसा वर्तते इति विप्रहः। २ रक्षति उच्छति चार्थे। नगर रक्षतीति नागरिकः । बदराण्युम्छतीति बादरिकः।