________________
[ ४५३ ]
हैमशब्दानुशासनस्य
अरे वा | ६ | ३ | ६१ ।
पर्वताद् देशार्थात् नृवर्जे ईग्रो वा स्यात् । पर्वतीयानि, पार्वतानि फलानि ॥ ६१ ॥
पर्ण-कृकणाद भारद्वाजात् । ६ । ३ । ६२ ! आभ्यां भारद्वाजदेशार्थाभ्यां शेषे ईयः स्यात् । पर्णीयः, कृकणीयः ॥ ६२ ॥
गहाऽऽदिभ्यः । ६ । ३ । ६३ ।
एभ्यो यथासम्भवं देशार्थेभ्यः शेषे ईयः स्यात् । गहीयः, अन्तस्थीयः ॥ ६३ ॥ पृथिवीमध्यात् मध्यमश्चास्य । ६ । ३ । ६४ । अस्मात् देशार्थाच्छेषे ईयः स्यात, प्रकृतेश्व मध्यमादेशः । मध्यमीयः ॥ ६४ ॥
निवासात चरणेऽणु । ६ । ३ । ६५ । पृथिवीमध्यात् निवास देशार्थात् चरणे निवस्तरि शेषे - ऽर्थेऽण् स्यात्, मध्यमाऽस्य । माध्यमाश्ररणाः ||६५ ॥
वेणुकाऽऽदिभ्य ईयण् । ६ । ३ । ६६ ।
एभ्यो यथायोगं देशार्थेभ्यः शेषेऽर्थे ईयण स्थात | वैणुकीयः, वैत्रकीयः ॥ ६६ ॥
वा युष्मदस्मदोऽञ्-ईनौ युष्माकाऽस्माकं चास्य, एकत्वे तु तवक-ममकम् । ६ । ३ । ६७ ।
आभ्यां शेषेऽर्थेऽञ्-ईनञौ वा स्याताम्, तद्योगे च यथासङ्ख्यं युष्माकम कौ, एकार्थयोस्तु तवकममकौ । यौsurat, यौष्माकीणः, आस्माकी, आस्माकीनः । १ पृथिवीमध्यज्ञब्दस्य मध्यम इत्यादेशः, ईयश्चानेन विधीयेते ।