________________
[४५०] हैमशब्दानुशासनस्य
सौवीरेषु कूलात् । ६।३। ४७॥ सौवीरदेशार्थात् कूलात् शेषेऽकञ् स्यात् । कोलकः ॥
समुद्रात् ननावोः । ६।३ । ४८। समुद्राद् देशार्थाच्छषेऽकञ् स्यात्, नरि नावि चार्थे । सातुद्रको ना, सामुद्रिका नौः । सामुद्रमन्यत् ॥४८॥
नगरात् कुत्सा-दाक्ष्ये । ६ । ३ । ४९ । नगराद् देशार्थाच्छेषेऽकञ् स्यात्, कुत्सायां दाक्ष्ये च गम्ये । चौरा हि नागरकाः, दक्षा हि नागरकाः ॥४९॥
कच्छाग्निचकत्र चत्तॊत्तरपदात् ।६।३।५०| कच्छाद्युत्तरपदाद् देशार्थाच्छेषेऽकञ् स्यात् । भारुककछका, काण्डाग्नकः, ऐन्दुवक्त्रका, पाहुवर्तकः ॥५०॥ अरण्यात् पथि-न्यायाऽध्यायेम-नर-वि
हारे । ६।३। ५१ । अरण्याद् देशार्थात् पथ्यादौ शेषेऽकञ् स्यात् । आर. ण्यकः पन्था न्यायोऽध्याय इभो नरो विहारो वा ॥५१॥
गोमये वा । ६ । ३ । ५२ । अरण्याद् देशाच्छेचे गोमयेऽर्थेऽक वा स्यात् । आर. ण्यका गोमया, आरण्या वा ॥ ५२ ॥
कुरु-युगन्धराद् वा। ६ । ३ । ५३ । । - आभ्या देशार्थाम्यां शेषेऽकश् वा स्यात् । कौरवका, कौरवः । यौगन्धरका, यौगन्धरः ॥ ५३॥ .