SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ [४४८] हैमशब्दानुशासनस्य पर-जन-राज्ञोऽकोयः । ६।३। ३१ । एभ्यः शेषेऽर्थेऽकीयः स्यात् । परकीयः, जनकीयः, राजकीयः ॥ ३१ ॥ दोरीयः। ६ । ३ । ३२ । दुसंज्ञकात् शेषेऽर्थे ईयः स्यात् । देवदत्तीयः, तदीयः ॥३२॥ उष्णाऽऽदिभ्यः कालात् । ६ । ३। ३३ । उष्णादिपूर्वपदात् कालान्ताच्छेषेऽर्थे ईयः स्यात् । उष्णकालीयम् ॥ ३३॥ व्यादिभ्यो णिकेकणौ । ६ । ३ । ३४ । एभ्यो यः कालस्तदन्ताच्छेषेऽर्थे णिक इकण च स्यात् । वैकालिका, वैकालिकी, आनुकालिका, आनुकालिकी ॥३४॥ काश्यादेः । ६ । ३ । ३५। एभ्यो दुभ्यः शेषेऽर्थे णिक-इकणौ स्याताम् । काशिका, काशिकी, चैदिका, चैदिकी ॥ ३५ ॥ , वाहीकेषु ग्रामात् । ६ । ३ । ३६ । एषु ग्रामाद दोः शेषेऽर्थे णिकेकणौ स्याताम् । कारन्तपिका, कारन्तपिकी ॥ ३६ ॥ वोशीनरेषु । ६।३। ३७ । एषु ग्रामार्थाद् दोः शेषेऽर्थे णिकेकणौ वा स्याताम् । आह्वजालिका, आह्वजालिकी, आह्वजालीयः ॥ ३७॥ वृजि-मद्राद् देशात् कः । ६ । ३ । ३४ । वृजिमद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः स्यात् । वृजिकः, मद्रकः ॥ ३८॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy