SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ [४२६] हेमशब्दानुशासनस्य ईनोऽह्नः क्रतौ । ६।२ । २१ । अहः समूहे क्रतावीनः स्यात् । अहीनः क्रतुः, आहूमन्यत् ॥ २१ ॥ * पृष्ठाद् यः। ६।२।२२। । पृष्ठात् समूहे क्रतो या स्यात् । पृष्ठ्यः क्रतुः ॥ २२ ॥ चरणाद् धर्मवत । ६ । २ । २३ । कठादेर्धमें इव समूहे प्रत्ययाः स्युः । यथा कठानां धर्मः काठकं, तथा समूहेऽपि ॥ २३ ॥ गोरथ-चातात् 'त्रल-कटयल ऊलम् । ६।२।२४। एभ्यः समूहे यथासङ्ख्यमेते स्युः । गोत्रा, रथकव्या, वातूलः ॥ २४ ॥ पाशाऽऽदेश्च ल्यः । ६ । २ । २५ । अस्माद् गवादेश्च समूहे ल्यः स्यात् । पाश्या, तृण्या, गव्या, रथ्या, वात्या ॥ २५ ॥ श्वादिभ्योऽन् । ६ । २।२६। एभ्यः समूहेऽन स्यात । शौवम्, आहम् ॥ २६ ॥ खलाऽऽदिभ्यो लिन् । ६।२।२७। एम्यः समूहे लिन् स्यात् । खलिनी, अकिनी ॥ २७ ॥ प्राम-जन-बन्धु गज-सहायात् तल्। ६ । २।२८। एभ्या समूहे तल् स्यात्। ग्रामता, जनता, बन्धुता, गजता, सहायता ॥२८॥ १ लकारी स्त्रीलिङ्गार्यो, एवं “पाशादेव ल्यः” इत्यादिसूत्रेष्वपि । तृण्या तृणसमूहः।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy