SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ [४२०] हैमशब्दानुशासनस्य बहुस्वराद् य इज, तदन्तस्य बहुप्राग्भरतगोत्रार्थस्य यः प्रत्ययः तस्याऽस्त्रियां लुप् स्यात् । क्षीरकलम्भाः, उद्दालकाः । प्राग्भरत इति किम् ? बालाकया बहुस्वरादिति किम् ? चैकयः ॥ १२० ॥ वोपकादेः। ६।१ । १३० । एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययः, तस्याऽस्त्रियां लुप् स्यात् वा । उपकाः, औपकायनाः । लमकाः, लामकायनाः ॥ १३० ॥ तिककितवाऽऽदौ द्वन्द्वे । ६ । १ । १३१ । एषु द्वन्द्वेषु बहुगोत्रार्थेषु यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । तिककितवाः, उब्जककुभाः ॥ १३१ ॥ 'व्यादेस्तथा । ६। १ । १३२ । द्रयादिप्रत्ययान्तानां द्वन्द्वे बह्वर्थे यः स द्रयादिः, तस्य लुप् स्यात्, तथा यथापूर्वम्। वृकलोहध्वजकुण्डीवृशाः तथेति किम् ? गार्गीवत्सवाजाः । तत्रास्त्रियामित्युक्ते गार्गीत्यत्र न स्यात् ॥ १३२ ।। वाऽन्येन । ६ । १ । १३३ । द्रयादेरन्येन सह द्रयादीनां द्वन्द्वे बह्वर्थे यः स द्रयादिस्तस्य तथा वा लुप् स्यात्, यथापूर्वम् । अङ्ग-वङ्ग-दाक्षयः आङ्ग-वाङ्ग-दाक्षयः॥ १३३॥ दयेकेषु षष्ठ्यास्तत्पुरुषे यजादेवा । ६ । १ । १३४ । १ "बहुध्वस्त्रियाम्” (६-१-१२४) इत्यारभ्य ये लोपनीया प्रत्ययास्ते यादयः सन्ति ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy