SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ स्वोपॉलघुवृत्तिः [३५५] : . एम्यः सदर्थेभ्यः करणे ब्रट् स्यात् । नेत्रम्, दात्रम्, शस्त्रम्, योत्रम्, योक्त्रम्, स्तोत्रम्, तोत्रम्, सेत्रम्, सेक्त्रम्, मेद्रम्, पत्त्रम् , पात्री, नधी ॥८८॥ हल-क्रीडाऽऽस्ये पुवः । ५। २ । ९८ । सदर्थात् पुवो हलक्रोडयोर्मुखे करणे ब्रट् स्यात् । पोत्रम् ॥ ८९ ॥ दंशेत्रः । ५।२।९।। सदर्थाद् देशेः करणे त्रः स्यात् । दंष्ट्रा ॥ ९॥ धात्री।५।२ । ९१ । धेर्धागो वा कर्मणि ब्रट् स्यात् । धात्री ॥ ९१ ॥ ज्ञानेच्छा ऽर्थ-जीत्-शील्यादिभ्यः क्तः । ५। २ । ९२ । ... ज्ञानेच्छाऽर्चाऽर्थेभ्यो जीद्भयः शील्यादिभ्यश्च सदर्थेभ्यः क्तः स्यात् । राज्ञां ज्ञाता, राज्ञामिष्टः, राज्ञां पूजितः, भिन्नः, शीलिता, रक्षितः ॥ ९२ ॥ उणादयः। ५।२ । ९३। .....सदर्थाद् धातोरुणादयो बहुलं स्युः। काला, ईडः ॥१३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिषानस्वोपज्ञशब्दानुशासनलघुवृत्तौ पश्चमस्याध्यायस्य ... द्वितीयः पादः समाप्तः ॥५॥२॥ ... "उणादय" इत्यत्रैकमेव सूत्रं दत्तं प्रकरणज्ञापनार्थम् । सूत्रबाहुल्यात बृहद्वृत्तिसमेतं हेमचन्द्रोयं इदमुणादिप्रकरणं पृथगेव केनचिद् पाश्चात्यविदुषाऽन्यत्र प्रकाशित, बृहवृत्तौ चैतदविकलं मुद्रितम् । अस्मिन्नुणादौ १००६ सूत्राणि सन्ति
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy