________________
स्वोपज्ञलघुवृत्तिः
[२६३]
प्रयम्य । विरत्य, विरम्य । प्रणत्य, प्रणम्य । आगत्य, आगम्य ॥ ५७ ॥
गमां क्वौ । ४ । २ । ५८ ।
एषां गमादीनां यथादर्शनं क्वौ किङति लुक् स्यात् । जनगत्, संयत्, परीतत्, सुमत्, सुवत् ॥ ५८ ॥ न तिकिदीर्घश्च । ४ । २ । ५९ ।
एषां तकि लुकू, दीर्घश्च न स्यात् । यन्तिः, रन्तिः, नन्तिः, गन्तिः, हन्तिः, मन्तिः, वन्तिः, तन्तिः ॥ ५९ ॥ आः खनि सनि-जनः । ४ । २ । ६० ।
एषां धुडादौ क्ङिति आः स्यात् । खातः सातः, जातः, जातिः । क्ङितीत्येव ? चखन्ति । धुटीत्येव ? जनित्वा ।। ६० ।।
सनि | ४ | २ | ६१ |
एषां धुडादौ सनि आः स्यात् । सिषासति । धुटीत्येव ? सिसनिषति ॥ ६१ ॥
ये नवा | ४ | २ | ६२ |
एषां ये क्ङिति आ वा स्यात् । खायते, खन्यते । चाखायते, चजन्यते । सायते । सन्यते । प्रजाय, प्रजन्य । कितीत्येव ? सान्यम्, जन्यम् ॥ ६२ ॥
तनः क्ये । ४ । २ । ६३ |
"
तनः क्ये आ वा स्यात् । तायते तन्यते । क्य इति किम् ? तन्तन्यते ॥ ६३ ॥
१ जनं गच्छतीति जनङ्गत् । मन्धातोः सुमत् । वनश्च सुवत् क्विपि परे - " ह्रस्वस्य तः पित्कृति" ( ४-४- ११३ ) इति सूत्रेण तकाराग़मो बोद्धव्यः।