________________
. [१०४] हैमशब्दानुशासनस्य द्वित्वेऽप्यन्तेऽप्यनितेः, परेऽस्तु वा । २ ।३ । ८१।
अदुरुपसर्गान्तःस्थाद्रादेः परस्याऽनिते! द्वित्वाद्वित्वयोरन्तानन्तयोश्च ण् स्यात् , परिपूर्वस्य वा स्यात् । प्राणिणिषति, पराणिति, हे प्राण । पर्यणिणिषति,पर्यनिनिषति, पर्यणिति, पर्यनिति, हे पर्यण, हे पर्यन् ॥ ८१॥ ..
हनः । २ । ३ । ८२ । अदुरुपसर्गान्तःस्थाद्रादेः परस्य हन्ते! ण् स्यात् । पाहण्यत, प्रहण्यते, अन्तर्हण्यते ॥ ८२॥
वमि वा । २ । ३ । ८३ । अदुरुपसर्गान्तःस्थाद्रादेः परस्य हन्ते!मोः परपोर्ण वा स्यात् । प्रहण्वः, प्रहन्वः। प्रहण्मि, प्रहन्मि । अन्तहण्वः, अन्तर्हन्वः । अन्तर्हण्मः, अन्तर्हन्मः ॥ ८३ ॥ निस-निक्ष-निन्दः कृति वा । २।३ । ८४ ।
अदुरुपसर्गान्तःस्थाद्रादेः परस्य निसादिधातो! ' वा स्यात् , कृत्प्रत्यये। प्रणिंसनम्, प्रनिसनम् । प्रणिक्षणम्, प्रनिक्षणम् । प्रणिन्दनम्, प्रनिन्दनम् । कृतीति किम् ? प्रणिस्ते ॥ ८४ ॥
स्वरात् । २ । ३ । ८५। अदुरुपसर्गान्तःस्थाद्रादेः परस्य स्वरादुत्तरस्य कृतो नो ण् स्यात् । प्रहाणः, प्रहीणः ॥ ८५ ।। धातुपाठापेक्षया कादित्वान्न णत्वम् , एवं खाद्-खन्-पिषादीनामपि प्रनिचखाद, प्रनिचखान, प्रनिपेक्ष्यतीत्यादिष्वपि नकारस्य न णकारत्वम् । उपर्युक्तसूत्रनिर्दिष्टमालादीनां नित्यं णत्वं, प्रस्तुतसूत्रोककवादिषान्तान्तरधातूनां च विकल्पेनेति भावः । सं०