________________
लिङ्गानुशासनम् (१३५) पाताले वाडवो धर्धः सीस आमलकः फले । पिटजङ्गलसत्त्वानि पिटकामांसजन्तुषु ॥ ६ ॥ मधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे तथा सूतककूलको । ७॥
वैनीतकभ्रमरको मरको वलीकवल्मीकवल्कपुलकाः फरकव्यलीको । किञ्जल्ककल्कमणिकस्तबका वितङ्क
वर्चस्कचूचुकतडाकतटाकतङ्काः ।। ८ ॥ बालकः फलकमालकालकमूलकस्तिलकपङ्कपातकाः । कोरकः करककन्दुकान्दुकानीकनिष्कचषका विशेषकः
॥९॥ शाटककण्टकटङ्कविटङ्का मञ्चकमेचकनाकपिनाकाः । पुस्तकमस्तकमुस्तकशाका वर्णकमोदकमूषिकमुष्काः
॥१०॥ चण्डातकश्चरकरोचककञ्चुकानि, मस्तिष्कयावककरण्डकतण्डकानि । आतङ्कशकसरकाः कटकः सशुल्कः, पिण्याकझर्झरकहंसकशङ्खपुङ्खाः ॥ ११ ॥ नखमुखमधिकाङ्गः संयुगः पद्मरागो भगयुगमथ टङ्गोद्योगश्रृङ्गा निदाघः । क्रकचकवचकूर्चाधर्चपुच्छोञ्छकच्छा व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ॥ १२ ॥ ध्वजमलयजकूटाः कालकूटारकूटौ कवटकपटखेटाः कर्पटः पिष्टलोष्टौ ।