________________
लिङ्गानुशासनम् (१३३) . ॥ अथ स्त्रीपुंसलिङ्गाः॥ पुंस्त्रीलिङ्गश्चतुर्दशेऽङ्के शङ्कुर्निरये च दुर्गतिः। दोमूले कक्ष आकारे गजो भूरुहि बाणपिप्पलौ ॥१॥ नाभिः प्राण्यङ्गके प्रधिर्नेमौ वचन बलिहे कुटः । श्रोण्योषध्योः कटो भ्रमो, मोहे पिण्डोवृन्दगोलयोः ॥२॥ भकनीनिकयोस्तारो भेऽश्लेषहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च वराटो रज्जुशस्त्रयोः॥३॥ कुम्भः कलशे तरणिः समुद्राकांशुयष्टिषु । भागधेयो राजदेये मेरुजम्ब्वां सुदर्शनः ॥ ४ ॥ करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः। लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥५॥ शुण्डिकचर्मप्रसेवको सल्लकमल्लकवृश्चिका अपि । शल्यकघुटिको पिपीलिकश्चुलुकहुड्डुक्कतुरुष्कतिन्दुकाः
शुङ्गोऽथ लश्चभुजशाटसटाः सृपाट: कीटः किटस्फटघटा वरटः किलाटः। चोटश्चपटेफटशुण्डगुडाः सशाणाः स्युरिपर्णफणगर्तरथाजमोदाः ॥७॥ विधकूपकलम्बजित्यवर्धाः सहचरमुद्गरनालिकेरहाराः। बहुकरकृमरौ कुठारशारौ वल्लरशफरमसूरकीलरालाः
॥८॥ पटोलः कम्बलो भल्लो दशो गण्डूषवेतसौ। लालसो रभसो वर्तिवितस्तिकुटयस्त्रुटिः ॥९॥