________________
॥ अहम् ॥ ॥ श्री हैमलिङ्गानुशासनम् ॥ पुंल्लिङ्गं कटणथपभमयर षसस्न्वन्तमिमनलौ किश्ति । ननङौ घघको दः किर भावे खोऽकर्तरि च का स्यात् ॥ १ ॥ हस्तस्तनौष्ठनखदन्तकपोलगुल्फकेशान्धुगुच्छदिनसर्तुपतद्ग्रहाणाम् । निर्यासनाकरसकण्ठकुठारकोष्ठहैमारिवर्षविषबोलरथाशनीनाम् ॥ २ ॥ श्वेतप्लवात्ममुरजासिकफाभ्रपङ्कमन्थत्विषां जलधिशेवधिदेहभाजाम् । मानद्रुमाद्रिविषयाशुगशोणमासधान्याध्वराग्निमरुतां सभिदां तु नाम ॥३॥ बोऽच्छदेऽहिर्वप्रे व्रीह्यग्न्योहायनबर्हिषौ । मस्तुः सक्तौस्फटिकेऽच्छो नीलमित्रौ मणीनयोः ॥४॥ कोणेऽस्रश्चषके कोशस्तलस्तालचपेटयोः । अनातोये घनो भूम्नि दारप्राणासुवल्वजाः॥५॥ कान्तश्चन्द्रार्कनामायः परो यानार्थतो युगः।।
यश्च स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ ६ ॥ वाकोत्तरा नक्तकरल्लकाङ्का न्युह्वोत्तरासङ्गतरङ्गरङ्गाः । परागपूगौ मृगमस्तुलुङ्ग कुडङ्गकालिङ्गतमङ्गमङ्गाः ॥७॥ वेगसमुद्गावपाङ्गवर्गीघार्घा मञ्चसपुच्छपिच्छगच्छाः। वाजौजकिलिञ्जपुञ्जमुञ्जाअवटा पट्टहठप्रकोष्ठकोष्ठाः ॥८॥