________________
तृतीयं परिशिष्टम् ॥ धातु प्रत्ययानुबन्धफलप्रतिपादिकाः कारिकाः ॥
उच्चारणेऽस्त्यवर्णाद्य आः क्तयोरिनिषेधने । इकारादात्मनेपदभीकाराचोभयं भवेत् ।। १ ।। उदितः स्वरान्नोऽन्तश्चोः, क्त्वादाविटो विकल्पनं । रुपान्त्ये डे परेऽहस्व प्रकारादविकल्पकः ॥२॥ लकारादङ् समायात्येः सिचि वृद्धिनिषेधकः । ऐस्क्तयोरिनिषेधः स्यादोस्क्तयोस्तस्य नो भवेत् ॥ ३ ॥ औकार इइविकल्पार्थेऽनुस्वारोऽनिइविशेषणे । लकारश्च विसर्गश्चाऽनुबन्धे भवतो नहि ॥ ४ ॥ कोऽदादिर्न गुणी प्रोक्तः, खे पूर्वस्य मुमागमः । गेनोभयपदी प्रोक्तो, घश्च चजोः कगौ कृतौ ॥५॥ आत्मने गुणरोधे, ङथो दिवादिगणो भवेत् । औ वृद्धौ वर्तमाने क्तः, टः स्वादिष्ठाकारकः ॥ ६ ॥ त्रिमगर्थो डकारः स्याण णचुरादिश्च वृद्धिकृत । तस्तुदादौ नकारश्चेच्चापुंसीति विशेषणे ।। ७ ॥ रुधादौं नागमे पो हि, मो दामः संप्रदानके । यस्तनादौ रकारः स्यात् पुंवद्भावार्थसूचकः ॥ ८॥ स्त्रीलिंगाथै लकारो हि उत औविति वो भवेत् । शः क्रयादिः क्यः शिति प्रोक्तः पापितोऽङविशेषणे ॥९॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानां चाऽनुबन्धः कथितो मया ॥ १० ॥