________________
[८१४] प्राकृतव्याकरणम् उसि-भ्यम्-डीनां हे-हुं-हयः । ८।४ । ३४१ ।
अपभ्रंशे इदुद्यां परेषां ङसि भ्यस ङि इत्येतेषां यथासंख्यं हे हुं हि इत्येते त्रय आदेशा भवन्ति । ङसेहैं ।
गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु ॥
घर मेल्लेप्पिणु माणुसहं तो वि न रुचइ रन्नु ॥ .. भ्यसो हुँ। तरुहुँ वि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति । सामिहुं एत्तिउ अग्गलडं आयरु भिच्चु गृहन्ति ॥ .. डेहि । अह विरल-पहाउ जि कलिहि धम्मु ॥ ३४१ ॥
आट्टो णानुस्वारौ। ८।४ । ३४२। अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्वारावादेशी भवतः ॥ दइएं पवसन्तेण ॥ ३४२ ॥
एं चेदुतः। ८ । ४ । ३४३ । अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य एंचकारात् णानुस्वारौ च भवन्ति ॥ एं।
अग्गिए उण्हउ होइ जगु वाएं सीअलु तेव।
जो पुणु अग्गिं सीअला तसु उण्हत्तणु केव ॥ णानुस्वारौ। विप्पिअ-आरउ जइ वि पिउ तो वितं आणहि अज्जु ।
अग्गिण दड्ढा जइवि घर तो तें अग्गि कज्जु ॥ एवमुकारादप्युदाहाः ॥ ३४३ ॥
स्यम्-जसू-शसां लुक् । ८ । ४ । ३४४ । ।
अपभ्रंशे सि अम् जसू शसु इत्येतेषां लोपो-भवति ।। एइ ति घोडा एह थलि। इत्यादि। अत्र स्यम् जसा लोपः ॥