________________
___ स्वोपज्ञवृत्तिसहितम् [८०३] . अवर्णादा उसो डोहः । ८ । ४ । २९९ ।
मागध्यामवर्णात्परस्य ङसो डित् आह इत्यादेशो वा भवति ॥ हगे न एलिशाह कम्माह काली । भगदत्तशोणिदाह कुम्भे। पक्षे। भीमशेणस्स पश्चादो हिण्डीअदि। हिडिम्बाए घड्डक्कय-शोके ण उवशमदि ॥ २९९ ॥
आमो डाहँ वा । ८ । ४ । ३०० । मागध्यामवर्णात्परस्य आमोनुनासिकान्तो डित आहादेशो वा भवति॥शय्यणाहँ सुहं। पक्षे । नलिन्दाणं। व्यत्ययात्प्राकृतेपि।ताहँ। तुम्हाहँ। अम्हाहँ । सरिआहँ। कम्माह ॥३०० ॥
अहं वयमोर्हगे । ८।४ । ३०१ । मागध्यामहंवयमोः स्थाने हगे इत्यादेशो भवति ॥ हगे शकावदालतिस्त णिवाशी धीवले । हगे शंपत्ता ॥३०१॥
शेषं शौरसेनीवत् । ८ । ४ । ३०२ । _ मागध्यां यदुक्तं ततोन्यच्छौरसेनीवद् द्रष्टव्यम् ॥ तत्र 'तो दोनादौ शौरसेन्यामयुक्तस्य' (८-४-२६०)। पविशदु आयुत्ते शामि-पशादाय ॥ 'अधः कचित्' (८-४-२६१ ) अले किं एशे महन्दे कलयले ॥ 'वादेस्तावति' (८-४-२६२)॥ मालेध वा धलेध वा ॥ अयं दाव शे आगमे ॥ ' आ आमन्त्र्ये सौ वेनो नः' (८-४-२६३ ) भो कञ्चुइआ ॥ 'मो वा' (८-४-२६४) ॥ भो रायं ॥ 'भवद्भगवतोः' (८-४-२६५)। एदु भवं शमणे भयवं महावीले। भयवं कदन्ते ये अप्पणो पकं उज्झिय