________________
[ ८०० ]
प्राकृतव्याकरणम्
सेन्यां प्राकृतवदेव भवति || ' दीर्घ ह्रस्वौ मिथो वृत्तौ ' ( ८-१-४ ) इत्यारभ्य ' तो दोनादौ शौरसेन्यामयुक्तस्य' ( ८ -४ - २६० ) एतस्मात्सूत्रात्प्राग् यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदवस्थान्येव शौरसे न्यां भवन्ति अमूनि पुनरेवंविधानि भवन्तीति विभागः प्रतिसूत्रं स्वयमभ्यूह्य दर्शनीयः ॥ यथा । अन्दावेदी । जुवदि-जणो । मणसिला । इत्यादि ।। २८६ ॥
[ अथ मागधी ]
अत एत्सौ पुंसि मागध्याम् | ८ | ४ | २८७ |
मागध्यां भाषायां सौ परे अकारस्य एकारो भवति पुंसि पुल्लिङ्गे । एष मेषः । एशे मेशे । एशे पुलिशे ॥ करोमि भदन्त | करेमि भन्ते ॥ अत इति किम् । णिही । कली । गिली | पुंसीति किम् । जलं ॥ यदपि " पोराणमद्धमागह- भासा - निययं हवइ सुत्तं " इत्यादिनार्षस्य अर्द्धमागधभाषानियतत्वमाम्नायि वृद्धैस्तदपि प्रायोस्यैव विधानान्न वक्ष्यमाणलक्षणस्य ॥ कयरे आगच्छइ ॥ से तारि से दुक्खसहे जिइन्दिए | इत्यादि ॥ २८७ ॥
र - सोर्ल - शौ । ८ । ४ । २८८ |
मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति ॥ र ॥ नले । कले ॥ स | हंशे । शुदं । शोभणं ॥ उभयोः । शालशे । पुलिशे ॥ - शिल- विअलिद - मन्दाल- नामल - शुल
लहश--वश--:
लादिहियुगे ।
बील - यिणे पक्खालदु मम शयलमवय्य-यम्बाल ||२८८ ||