________________
[७९८] प्राकृतव्याकरणम्
भविष्यति स्सिः । ८ । ४ । २७५ । । शौरसेन्यां भविष्यदर्थे विहिते प्रत्यये परे सिर्भ वति ॥ हिस्साहामपवादः। भविस्सिदि। करिस्सिदि । गच्छिस्सिदि ॥ २७५ ॥ __अतो उसेडर्डादो-डादू । ८ । ४ । २७६ । ..
अतः परस्य ङसेः शौरसेन्या आदो आदु इत्यादेशी डितो भवतः ॥ दूरादो य्येव । दूरादु ॥ २७६ ।।
इदानीमो दाणि । ८।४ । २७७। । शौरसेन्यामिदानीमा स्थाने वाणिमित्यादेशो भवति॥ अनन्तरकरणीयं दाणिं आणवेदु अय्यो॥ व्यत्ययात्प्राकृ. तेपि । अनं दाणिं बोहि ॥ २७७ ॥
___ तस्मात्ताः । ८ । ४ । २७८ ।
शौरसेन्यां तस्माच्छब्दस्य ता इत्ययादेशो भवति ॥ ता जाव पविसामि । ता अलं एदिणा माणेण ।। २७८ ।।
मोन्त्याण्णो वेदेतोः । ८।४ । २७९ । . शौरसेन्यामन्त्यान्मकारात्पर इदेतोः परयोर्णका. रागमो वा भवति ।। इकारे।जुत्तं णिमं जुत्तमिणं । सरिसं णिमं सरिसमिणं । एकारे । किं णेदं किमेवं । एवं णेदं एवमेदं ॥ २७९ ॥
एवार्थे य्येव । ८ । ४ । २८० । एवार्थे य्येव इति निपातः शौरसेन्यां प्रयोक्तव्यः ।। मम य्येव बम्भणस्स । सो व्येव एसो ॥२८॥