________________
RRRRRRRRRB
॥ औ अहं नमः ॥
॥ नमस्तपोगच्छाधिपतिभ्यः श्रीविजयनेमिसूरीशेभ्यः॥
प्राचीनावचूर्णि-साधुरत्नसूरिभणीतावचूर्णि-देवेन्द्रसूरिवि
निर्मितवृत्ति-वृहन्नवतत्त्वप्रक्षेपगाथातदवचूर्णिविभूषितं
॥श्री नवतत्त्वप्रकरणम् ॥
॥ परिशिष्टम् नं. घ. ङ. च. छ.ज. (६ थी १०)॥
जीवाऽजीवा पुन्नं, पावासवसंवरो अनिजरणा॥ बंधो नुख्खो अतहा, नव तत्ता हुंति नायव्वा ॥ १ ॥ (प्रा०अ०) वीरं विश्वेश्वरं नत्वा, नवतत्त्वावचूर्णिकाम् ॥ वक्ष्ये स्वान्योपकाराय, शास्त्रान्तरविलोकनात् ॥१॥
तत्राद्यगाथामाह-'जीवा०' जीवश्विद्वान् , अजीवो निश्चेतनः, पुण्यं शुभप्रकृतिरूपं, विपरीतं पापं, आश्रवत्यागच्छति कर्मानेनेत्याश्रव इन्द्रियादिः, तन्निरोधः संवरः, निर्जरा विपाकात्तपसा वा परिशाटः, बनधो जीवकर्मणोरत्यन्ताश्लेषः, मोक्षः सर्वकर्ममुक्तस्यात्मनः स्थितिः । च शब्द एवार्थे एतान्येव नवतत्त्वानि तथा