SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ( ७४ ) ॥ श्रीनवतस्वपरिशिष्टानि. नं. घ थी ज.(६ थी १०)॥ व्राजकादिसंबंधिनि वल्कलचीर्यादिवत् द्रव्यलिंगे सिद्धाः ते अन्यलिंगसिद्धाः। यदा अन्यलिंगिनो भावतः सम्यक्त्वादिप्रतिपन्नाः केवलज्ञानं प्रतिपद्यते तदान्यलिंगत्वं द्रष्टव्यं अन्यथा यदि दीर्घमायु कमात्मनः पश्यति ज्ञानेन ततः साधुलिंगमेव प्रतिपद्यते । तथा स्त्रिया लिंग स्त्रीलिंग शरीरनिर्वृतिः, वेदे सति सियभावात् , तस्मिन् त्रीलिंगे वर्तमानाः संतो ये सिद्धाः प्रत्येकघुद्धवर्जिताः केचित् स्त्रीलिंगसिद्धाः । तथा पुरुषलिंगे शरीरनिर्वृतिरूपे व्यवस्थिताः संतो ये सिद्धाः ते पुरुषलिंगसिद्धाः। तथा नपुंसकलिंगे वर्तमानाः संतो ये सिद्धास्ते नपुंसकलिंगसिद्धाः गृहस्थाः संतोये सिद्धास्ते गृहस्थसिद्धाः भरतादयः। प्रत्येकं किंचिद् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धवा बुद्धवंतः परमार्थमिति प्रत्येकबुद्धाः संतो ये सिद्धाः ते प्रत्येकबुद्धाः । तथा एकैकसमये एकैका एव संतो ये सिद्धास्ते एकसिद्धाः। एकसमये ऋषभादिवदष्टोत्तरशतस्य सेधनादनेकसिद्धाः । बुद्धा आचार्याः तैर्बोधिता ये सिद्धाः ते बुद्धबोधितसिद्धाः । इति पंचदशभेदाः ॥ श्री साधुरत्नस्यूरिविरचिता नवतत्त्वाचूर्णिः समाप्ता ॥ ॥ १६४४ माघशु०११रविवारे सूर्यपुरे लिखिता ॥ [(अ) सिद्धा अनन्तरपरम्परभेदाभ्यां द्विविधाः, परम्परसिद्धास्त्वनन्तभेदाः, अनन्तरसिद्धान्पञ्चदशभेदैराह, ते च जिनसिद्धा इत्यादि व्यक्तम् ॥] [जिणसिद्धा अरिहंता, अजिणसिद्धाय पुंडरियपमुहा । गणहारितित्थसिद्धा, अतित्थसिद्धा य मरुदेवी॥९४]१२२ [( अ०) अथैतान् पञ्चदशापि सिद्धभेदानिदर्शनैः शिष्यान् व्युत्पादयितु काम आह- 'जिनसिद्धा' इत्यादि जिनसिद्धाः तीर्थ स्थापयित्वा सिद्धिपदं प्राप्ताः, ते च अर्हन्तस्तीर्थविधातारो नाभिभूप्रभृतयः, अजिनसिद्धाश्च सामान्यकेवलिनः, पुण्डरीकप्रमुखाः गगधारिणस्तीर्थसिद्धाः, मरुदेवादयः अतीर्थसिद्धाः ॥].
SR No.002216
Book TitleNavtattva Sahitya Sangraha
Original Sutra AuthorN/A
AuthorUdayvijay
PublisherMansukhbhai Manekbhai
Publication Year1922
Total Pages250
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy