________________
. ॥ अव० वृत्यादिसमेतं नवतत्वप्रकरणम् ॥ (७३) षां कायस्थितिरसंख्येयगुणिता एकैकस्याग्निजीवस्योत्कर्षतोऽसंख्येय. कालचक्रप्रमाणत्वात्।ततः संयमस्थानान्यनुभागबन्धस्थानानि चासंख्वगुणितानि, यतो कैकस्यां कायस्थितापसंख्येयाः स्थितिबन्धाः, जघन्यतोपि प्रथमाऽन्तर्मुहूर्तप्रमिता, ततो द्वितीया समयाधिका, यावहसंख्येयानि कालचक्राणि। एकैकस्मिंश्च स्थितिबन्धेऽसंख्येयान्यनुभागबन्धस्थानानि।तत्स्वरूपं चान्यत्र पश्चितमिति तत एवावसेयम्।] [ताणि मरतेण जया, पुट्ठाणि कमुक्केण सवाणि । भावेण वायरो सो, मुहमो जं कमेण बोद्धवो ॥९०११८
[(अ०) अथैतानि सर्वाण्यनुभागबन्धस्थानानि क्रमोत्क्रमाभ्यां म्रियमाणेनैकजीवेन यदा यावता कालेन स्पृष्टानि तावान्स कालः भावेन भावापेक्षया बादरः परावर्तः । क्रमेण क्रमस्पर्शापेक्षया बोद्धव्यः सूक्ष्मः भावपुद्गलपरावर्तः ॥] [लोगपएसोसप्पिणि-समया अणुभागबंधठाणे य । जह तह कममरणेणं, पुट्ठा खित्ताइ थूलियरा ॥९१]११९
[(अ०) लोकप्रदेशाः, अवसर्पिणीत्युपलक्षणादुत्सर्पिण्यप्यवसेया, ततः कालचक्रसमयाः, अनुभागबन्धस्थानानि च, एतानियथातथा मरणेन स्पृष्टान्याश्रित्य क्षेत्रादयः स्थूलाः, क्रममरणेन च सूक्ष्माः परावर्ताः ॥] [उस्सप्पिणी अणंता, पुग्गलपरिअओ मुणेयहो ॥ तेणंता तीअद्धा, अणागयद्धा अणंतगुणा ॥९२॥] ॥१२०॥
[ ( अ०) सामान्यतः पुद्गलपरावर्तः अनन्तोत्सर्पिण्यवसर्पिणीकालप्रमितो ज्ञातव्यः, तेचानन्ता अतीतकालः, अनागतस्त्वनन्तगुणः ॥] [जिणअजिणतित्थतित्था, गहिअन्नसलिंगथीनरनपुंसा। पत्तेय सयंबुद्धा, वुद्धबोहिक्कणिकाय ॥ ९३॥] ॥ १२१॥
(सा० अ०) 'जिण'-इति तीर्थकराः संतो ये सिद्धाः ते तीर्थकरसिद्धाः। अतीर्थकरसिद्धाः सामान्यकेबलिनः । अतीर्थसिद्धाः भगवतीमरुदेव्यादिवत् । खलिंगे रजोहरणादिरूपे व्यवस्थिताः संतो ये सिद्धास्ते स्वलिंगसिद्धाः। तथा अन्यलिंगे पारि