SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ देवी पञ्चम्यह्नस्तपोऽर्थं धीमतां कुशलं वितरतु । व्याख्या-स्वर्णालङ्कारवल्गन्मणिकिरणगणध्वस्तनित्यान्धकारा स्वर्णानां सुवर्णानाम् अलंकाराः अलङ्कुर्वन्ति इति अलंकाराः आभूषणानि इति स्वर्णालंकाराः तेषु वल्गन्तः गतिं कुर्वन्तः ये मणय: कर्केतनादिरत्नानि तेषां किरणगणा अंशुसमूहाः तैः ध्वस्त: नष्टः इति स्वर्णालंकारवल्गन्मणि-किरणगमध्वस्त: नित्यश्चासौ अन्धकार: नित्यान्ध-कार: गाढं तम: स्वर्णालंकारवल्गन्मणिकिरणगणध्वस्त: नित्यान्धकारो यया सा स्वर्णालंकारवल्गन्मणिकिरणगणध्वस्तनित्यान्धकारा (सा देवी स्वशरीरस्थिताभूषणप्रकाशेन बाह्यान्धकारं नित्यं नाशयतीति भाव:) हुंकारारावदूरीकृतसुकृतजनवातविघ्न-प्रचारा-सुकृतं अस्ति एषां ते 'अच:' (५/१/४९) इत्यनेन मत्वर्थीयोऽच, सुकृता: ते च ते जना: सुकृतजनाः पुण्यशालिन: • तेषां व्रातः समूह: इति सुकृतजनव्रात: विजानां कार्यप्रतिबन्धकानां प्रचार: विस्तार: विजप्रचार: सुकृतजनवातस्य विजप्रचार: सुकृतजनवातविघ्नप्रचार: हुंकार इति आरवेण तान्त्रिकप्रयोगविशेषेण 'हुं' इति शब्दकरणेनेति यावत्, दूरीकृत: नाशित: _amirmananewwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww . ८3 पञ्चमी स्तुति
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy