________________
भवतु, कीदृशो जिनवर: ? अखिलभाववेदी-लोकाऽलोकप्रकाशककेवलज्ञानेन करामलकवत् त्रिलोकस्य त्रिकालस्य सर्वपदार्थान् जानातीत्यर्थः, सर्वपदार्थज्ञायकेति यावत्, पुन: कीदृशो जिनवर: ? सिद्धार्थभूपकानन-कल्पवृक्ष:सिद्धार्थभूपस्य कुलरूपे कानने वने कल्पवृक्षः कल्पवृक्षसदृशः, अयं प्रान्तश्लोकस्तु श्रीमहावीर-जिनस्तोत्रकर्तुः केनचिच्छिष्यादिना निर्मित इति संभाव्यते, यतस्तत्र सूरीशेति पदमुपात्तम्, अयं श्लोक: 'वसन्ततिलकावृत्तम्', तल्लक्षणन्तु-'ज्ञेया वसन्ततिलका तभजाजगौ ग:' इति वृत्तरत्नाकरे प्रोक्तम् ।।
॥ प्रशस्तिपद्यम् ॥ माघे शुक्लदले. सहस्रयुगले संवत्सरे विक्रमे, पूज्य: श्रीगुरुनेमिसूरिपमणे-लावण्यसूरिमणेः । दक्षस्यान्तिषदा सुशीलमुनिमा स्तोत्रे सुहीरोदिते श्रीवीरस्य विभोः सुराजनगरे टीका कृता दीपिका ॥१॥
(शार्दूलविक्रीडितवृत्तम्) ॥ इति श्रीमत्तंपागणगगनाङ्गणगगनमणि-सार्वसार्वज्ञशासनसार्वभौम-श्रीकदम्बादिविविधतीर्थोद्धारक-विद्यापीठा
maaaaaaaaaaaaam ६७ श्री वर्धमान जिनस्तोत्रम्