________________
भाज: श्रमणोपासका:, श्रीज्ञातपुत्रं-श्री ज्ञातकुलोत्पन्नसिद्धार्थसुतम्, श्रीमहावीरमिति फलितोऽर्थः, सिद्ध्यै-मुक्त्यर्थम्, सदा-प्रतिदिनमित्यर्थः, श्रयध्वं आश्रयणं कुरु, कीदृशं ज्ञातपुत्रं ? -समयामयामया-समे सर्वे यामा महाव्रतानि यस्यां सा समयामा, तया तथा, मया-आत्मसम्पत्त्या, . उपलक्षणार्थे तृतीयाविधानात् सकलमहाव्रतरूपसम्पत्योपलक्षितमित्यर्थः, पुन: कीदृशं ज्ञातपुत्रं ? समा :अत्र शमाद्यैरिति पाठ: सम्यगाभाति, उपशमादिगुणैरिति तदर्थः, पुन: कीदृशम् ? वसुधासुधासुधाकरोपमं वसुधायां पृथिव्यां येऽसुधा:-असून् प्राणान् दधति धारयन्तीति असुधाः प्राणिनः, तेषु सुधाकरस्य चन्द्रस्योपमा सादृश्यं यस्य तं तथा, पुनः कीदृशम् ? साधुपरं-मुनिषु श्रेष्ठं मुनीन्द्रमित्यर्थः, पुन: कीदृशम् ? परंपरम्-परं शत्रुमपि पृणातीति परंपर:, तं तथा, यद्वा साधु परम्परम्-साधूनां परंपरा यस्माद् स: साधुपरंपर:, तं तथा, परम्-ज्ञानादिगुणैः प्रधानमित्यर्थः ।
સ્પષ્ટાર્થ સકલ મહાવ્રતોને ધારણ કરનારી એવી આત્મસંપત્તિ વડે કરીને યુક્ત, ઉપશમ વગેરે ગુણો વડે જગતમાં રહેલા પ્રાણીઓને
॥ पंच स्तोत्राणि ॥ ६०