________________
कला विभूतिः तस्या ग्रहे ग्रहणे साग्रहा आग्रहवतीति श्रुतपयोनिधिमध्यविकस्वरोज्ज्वलकलाग्रहसा ग्रहा । अत्राग्रहस्य चेतनधर्मत्वेन याचितकमण्डनन्यायात् परम्परा - सम्बन्धत्वाद्वा तथावसेयम्, इदमत्रावधेयम्, यथा पयोनिधिर्गम्भीरस्तथा श्रुतवारिधिरपि, सत्यपि सागरे गंभीरे तस्य तटे सर्वेऽपि निःशङ्कमटन्ते किन्तु न केऽप्यवगाहन्ते तन्मध्यभागम् तथा श्रुतसागरतटमटन्ते सर्वे परं न गच्छन्ति तदन्तः केचित्तु बहुप्रयत्नतः सागरमध्यमाप्नुवन्ति किन्तु तदन्तः प्रविश्य न ततः रत्नानि परं ये सत्त्वशीला दृढरज्ज्वादिसाधनवन्तस्त एव जलधिमध्यमाविश्य सम्पत्तिमाप्नुवन्ति, एवं भूरिप्रयासतः केचिद्धीमन्तः श्रुतोदधिमध्यं प्राप्यापि न ततस्तत्त्वरत्नानि लभन्ते किन्तु ये प्रतिभावन्तो जपमालादिना भारतीमाराधयन्ति त एव श्रुतज्ञानरहस्यमाप्नुवन्ति ॥ ८ ॥
‘अजाव्याघ्रन्यायात्' प्राप्तेऽप्यनेकसुखसाधने सभयचेतस्कैः सुखस्वादो नो लभ्यते इति भारतीभक्ता तं भयाभावं वर्णयति
द्विरदकेसरिमारिभुजङ्गमा-सहनतस्करराजरुजां भयम् । तवगुणावलिगानतरङ्गिणां, न भविनां भवति श्रुतदेवते ॥९॥ व्याख्या - द्विरदेति- हे ततदेवते ! हे सरस्वति ! तव
१०७ अनुभूतसिद्धसारस्वतस्तवः