________________
सिद्धसारस्वताचार्यश्रीबप्पभट्टिसूरिविरचितः
मुनिश्रीधुरन्धरविजयरचितया 'शिशुहिता 'ख्यया व्याख्ययालङ्कृतश्च ।
।। अनुभूतसिद्धसारस्वतस्तवः ॥
•
प्रणम्य नेमिपादाब्जं गुरुगौरवसंयुतम् । व्याख्यां शिशुहितां कुर्वे सिद्धसारस्वते स्तवे ॥१॥ अनेकजन्मार्जितसुकृतवशाद्विघ्नरहितत्वाच्चानुपमसरस्वतीप्रसादमासाद्याचार्य श्रीमन्तो बप्पभट्टिसूरयः सर्वत्र जयिनोऽपि स्वकीयपथप्रवर्तमानजनोपकाराय सरस्वतीसमाराधनरूपमनुभूतसिद्धसारस्वतस्तवाभिधानं स्तोत्रविशेषं व्याकृर्वन्तः प्रथमं सरस्वतीदर्शनप्रयोजके सूक्ते अवतारयन्ति । कलमरालविहङ्गमवाहना, सितदुकूलविभूषणलेपना । प्रणतभूमिरुहामृतसारिणी, प्रवरदेहविभाभरधारिणी ॥ १ ॥ अमृतपूर्णकमण्डलुहारिणी, त्रिदशदानवमानवसेविता । भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम्॥२॥ युग्मम् । व्याख्या - कलमरालेति - कलः - मधुरशब्दः तज्जनको मरालः हंसः कलमरालः स चासौ विहङ्गमः विहायसा
॥ पंच स्तोत्राणि ॥ ૯૬