________________
पर्वधार्मिकदिवस: तस्य उद्यापनं उद्यापनिका ('उजमणुं' इति लोके प्रसिद्धम्) तस्मै इदमिति तत्पर्योद्यापनार्थएकादश्युद्यापनिकायै-शम्भुसङ्ख्याप्रमेयाम् शम्भुः एकादशरुद्रा: तस्य सङ्ख्या एकादशमतया प्रमातुं गणयितुं योग्या इति शम्भुसङ्ख्याप्रमेया तान् तथा एकादशसङ्ख्यापरिमितान् उत्कृष्टां श्रेष्ठां तां प्रसिद्धां वस्तुवीथीं वस्तूनां पदार्थानां वीथी समूहः तान् तथा उपादेयपदार्थसामग्री, अभयदसदने न भयं अभयं तद् ददाति इति अभयद: तस्य सदनम् मन्दिरं तस्मिंस्तथा तीर्थंकरपरमात्ममन्दिरे प्राभृती: न प्राभृतम् अप्राभृतं अप्राभृतं प्राभृतं, यथा सम्पद्यते तथा कुर्वन्तीति प्राभृतीकुंर्वन्तः तेषां तथा परमात्मनोऽग्रे समर्पयताम् समुदितसुधियाम्-समुदिता सम्यक्प्रकारेण उत्पन्नां धी: सद्बुद्धिः येषां तेषां तथा समुत्पन्नसबुद्धीनां तेषां भविकानाम् । सव्याक्षपादैः - अक्षाणि इन्द्रियाणि च पादौ चरणौ च इति अक्षपादम् सव्यं प्रतिकूलं विचित्रमित्यर्थः, अक्षयपादं येषां ते सव्याक्षपादा: तैस्तथा विचित्रेन्द्रियचरणैः प्रलपितमतिभिः प्रलपितं अनर्थकं वचः तत्र मति: बुद्धिः येषां ते maaraaaaaaaaaaaaaaaaaaaaaaam
॥ पंच स्तोत्राणि ॥ ८४