________________
र्दिव्यद्भिः स्फारहारैर्ललितवखपुर्यष्टिभिः स्वर्वधूभिः । सार्धं कल्याणकौघो जिनपतिनवतेर्बिन्दुभूतेन्दुसंख्यो, घस्रे यस्मिन् जगे तद् भवतु सभविनां पर्व सच्छर्महेतुः ॥२॥
अन्वयः यस्मिन् घस्रे, अभ्रभ्रमद्भिः मुनिपगुणरसास्वादनानन्दपूर्णै: दिव्यद्भिः स्फारहारैः इन्द्रैः ललितवरवपुर्यष्टिभिः स्वर्वधूभिः सार्धं, जिनपतिनवते: बिन्दुभूतेन्दुसंख्यः, कल्याणौघः, जगे, तत्, पर्व, सभविनां, सच्छर्महेतुः भवतु ।
व्याख्या : यस्मिन् मृगशीर्षधवले घसे-दिने अभ्रभ्रमद्भिः अभ्र-सुरपथः तत्र भ्रमन्तः विहारिण: अभ्रभ्रमन्तः तैर्देवलोकवासिभिरिंत्यर्थस्तथा, मुनिपगुणरसास्वादनानन्दपूर्णै: मुनीन् साधून् पाति रक्षतीति मुनिपः तीर्थंकरः तस्य ये गुणाः ज्ञानदर्शनादय: तेषां ये रसाः शान्तादयः तेषां आस्वादनेन ज्ञानप्राप्त्यादिना समुत्थितः यः आनन्दः हर्षः तेन पूर्णे: भृतैः इति मुनिपगुणरसास्वादनानन्दपूर्णै: परमात्माचिन्त्यवाणीप्रभावसमुत्पन्नहर्षपूर्णैः स्फारहारैः स्फारा: दीप्तिमन्तश्च ते हारा: मुक्तादामानि इति स्फारहारा : तैस्तथा दिव्यद्भिः शोभमानैः इन्द्रैः देवानामधिपैः ललितवरवपुर्यष्टिभिः वरं श्रेष्ठं च तद् वपुः शरीरं वरवपुः ललितं मनोहरं च ८८ एकादशीस्तुति