________________
पञ्चदश अध्ययन
४४७
मिग-उसभ-तुरग-नर-मकर-विहग-वानरकुंजर-रुरु-सरभ-चमर-सङ्कलसीहवणलय-भत्तिचित्तलय-विजाहर-मिहुणजुयलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुनिरूवियं मिसिमिसिंतरूवगसहस्सकलियं ईसिं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसगपलंबंतमुत्तदामं हारद्धहारभूसणसमोणयं अहियपिच्छणिजं पउमलयभत्तिचित्तं असोगवणभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गसिहरं पासाईयं दरिसणिज्जं सुरूवं।
छाया- ततः शक्रः देवेन्द्रः देवराजः शनैः २ यानविमानं प्रस्थापयति शनैः २ यानविमानं प्रस्थाप्य शनैः २ यानविमानतः प्रत्यवतरति २,शनैः २ एकांतमपक्रामति एकान्तमपक्रम्य महता वैक्रियेण समुद्घातेन समवहन्यते २ एकं महत् नानामणिकनकरत्नभक्तिचित्रं शुभं चारुकान्तरूपं, देवच्छंदकं विकुरुते तस्य देवच्छन्दकस्य बहुमध्यदेशभाग एकं महत् सपादपीठं नानामणिकनकरत्नभक्तिचित्रं शुभं चारुकान्तरूपं सिंहासनं विकुरुते विकृत्य यत्रैव श्रमणो भगवान महावीरः तत्रैवोपागच्छति उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणं प्रदक्षिणं करोति कृत्वा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्यित्वा श्रमणं भगवन्तं महावीरं गृहीत्वा यत्रैव देवच्छन्दकस्तत्रैवोपागच्छति शनैः २पौरस्त्याभिमुखं सिंहासने निषीदयति शनैः २ निषाद्य शतपाकसहस्रपाकैः तैलैः अभ्यंगयति गन्धकाषायिकैः उल्लोलयति उल्लोल्य शुद्धोदकेन मजयति मज्जयित्वा यस्य मूल्यं शतसहस्रेण त्रिपटोलतिक्तकेन साधिकेन शीतेन गोशीर्ष रक्तचन्दनेन अनुलिम्पति अनुलिम्प्य ईषत् निश्श्वासवातवाह्यं वरनगरपट्टनोद्गतं कुशलनरप्रशंसितं अश्वलालापेलवं (श्वेतं ) छेकाचार्यकनक-खचितान्तकर्म हंसलक्षणं पटुट्युगलं परिधापयति, परिधाप्य हारमर्द्धहारमुरस्थं नेपथ्यम् एकावलिं प्रालम्बसूत्रं पट्टमुकुटरत्नमाला आबन्धापयति आबन्धाप्य ग्रन्थिमवेष्टिमपूरिमसंघातेन माल्येन कल्पवृक्षमिव समलंकरोति समलंकृत्य, द्वितीयमपि महता वैक्रियसमुद्घातेन समवहन्यते समवहत्य एकां महतीं चन्द्रप्रभां शिविकां सहस्रवाहनीयां विकुरुते। तद्यथा--ईहा-मृग-वृषभ-तुरग-नरमकर-विहग-वानर-कुंजर-रुरु-शरभ-चमर-शार्दूलसिंहवनलताभक्तिचित्रलताविद्याधरमिथुन-युगलयंत्रयोगयुक्तां, अर्चिसहस्रमालनीयां सुनिरूपितां मिसीमिसन्तरूपकसहस्रकलितां ईषद्-भिसमानां भिभिसमानां चक्षुर्लोचनलोकनीयां मुक्ताफलमुक्ताजालान्तरोपितां तपनीयप्रवरलम्बूसकप्रलम्बमानमुक्तादामां हारा हारभूषणसमन्वितां अधिकप्रेक्षणीयां पद्मलताभक्तिचित्राम् अशोकवनभक्तिचित्रां, कुंदलताभक्तिचित्रां