SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३३८ श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध निर्ग्रन्थः तरुणः यावत् स्थिरसंहननः स एकं पात्रं धारयेत् न द्वितीयम् । स भिक्षुर्वा भिक्षुकी वा परं अर्द्धयोजनमर्यादायाः पात्रप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुर्वा भिक्षुकी वा, तत् यत् अस्वप्रतिज्ञया एकं साधर्मिकं समुद्दिश्य प्राणानि ४ यथा पिण्डैषणायां चत्वारः आलापकाः, पंचमे बहवः श्रमणः प्रगण्य २ तथैव । स भिक्षुर्वा भिक्षुकी वा असंयतः भिक्षुप्रतिज्ञया बहवः श्रमण ब्राह्मण वस्त्रैषणाऽऽलापकः । स भिक्षुर्वा भिक्षुकी वा तत् यानि पुनः पात्राणि जानीयात्, विरूपरूपाणि महद्धनमूल्यानि तद्यथा - अय: पात्राणि वा त्रपुः पात्राणि वा ताम्रपात्राणि वा सीसकपात्राणि वा हिरण्यपात्राणि वा० सुवर्णपात्राणि वा रीतिपात्राणि वा हारपुटपात्राणि वा मणिकाचकंसपात्राणि वा शंखश्रृंगपात्राणि वा दन्तपात्राणि वा चेलपा० शिलापा० चर्मपात्राणि वा अन्यतराणि वा तथाप्रकाराणि विरूपरूपाणि महद्धनमूल्यानि पात्राणि अप्रासुकानि न प्रतिगृह्णीयात् । स भिक्षुर्वा भिक्षुकी वा तद् यानि पुनः पात्राणि विरूपरूपाणि महद्धनबन्धनानि, तद्यथा - अयोबन्धनानि वा यावत् चर्मबन्धनानि वा अन्यतराणि तथाप्रकाराणि महद्धनबन्धनानि अप्रासुकानि न प्रतिगृह्णीयात् इत्येतानि आयतनानि उपातिक्रम्य, अथ भिक्षुः जानीयात्, चतसृभिः प्रतिमाभिः पात्रमेषितुं (अन्वेष्टुं ) तत्र खलु इयं प्रथमा प्रतिमा १ । स भिक्षुः उद्दिश्य २ पात्रं याचेत्, तद्यथा - अलाबुकपात्रं वा ३ तथाप्रकारं पात्रं स्वयं वा याचेत, यावत् प्रतिगृह्णीयात्, प्रथमा प्रतिमा ॥ १ ॥ अथापरा० स० प्रेक्ष्य पात्रं याचेत तद्यथा - गृहपतिं वा कर्मकरीं वा, स पूर्वमेव आलोचयेत्, आयुष्मन् ! भगिनि ! दास्यसि मे इतः अन्यतरत् पात्रं तद्यथा - अलाबुकपात्रं वा ३ तथाप्रकारं पात्रं स्वयं वा यावत् प्रतिगृह्णीयात्, द्वितीया प्रतिमा ॥ २ ॥ अथापरा - स भिक्षुर्वा भिक्षुकी वा स यत् पुनः पात्रं जानीयात्, स्वांगिकं वा वैजयन्तिकं वा तथाप्रकारं पात्रं स्वयं वा यावत् प्रतिगृह्णीयात्, तृतीया प्रतिमा ॥ ३ ॥ अथापरा चतुर्थी प्रतिमा-स भिक्षुर्वा भिक्षुकी वा उज्झितधर्मिकं याचेत यावत् अन्ये बहवः श्रमणाः यावत् नावकांक्षन्ति तथाप्रकारं याचेत यावत् प्रतिगृह्णीयात्, चतुर्थी प्रतिमा ॥४ ॥ इत्येतासां चतसृणां प्रतिमानां अन्यतरां प्रतिमां यथा पिंडैषणायाम् । स एतया एषणया एषमाणं दृष्ट्वा परो वदेत्- आयुष्मन् श्रमण ! एष्यसि त्वं मासेन वा यथा वस्त्रैषणायाम्, स परो नेता वदेत् - आयुष्मति, भगिनि ! आहर एतत् पात्रं तैलेन वा घृतेन वा नवनीतेन वा वसया वा अभ्यज्य, तथैव स्नानादि, तथैव शीतोदकानि कन्दानि तथैव । स परो नेता० - ( एवं वदेत्- ) आयुष्मन् श्रमण ! मुहूर्तकं यावत् आस्स्वतिष्ठ ? तावत् वयमशनं वा ४ उपकुर्मः उपस्कुर्मः । ततस्ते वयं आयुष्मन् श्रमण ! सपानं सभोजनं तद्ग्रहं (पात्रं ) दास्यामः । तुच्छके प्रतिग्रहे दत्ते श्रमणस्य नो सुष्ठु, साधु भवति । स पूर्वमेव आलोचयेत्, आयुष्मति ! भगिनि० ! नो खलु मे कल्पते आधाकर्मिकं अशनं वा ४ भोक्तुं वा मा उपकुरु मा उपस्कुरु अभिकांक्षसि मे दातुं एवमेव ददस्व, तस्य एवं वदतः परः अशनं वा उपकृत्य उपस्कृत्य सपानं सभोजनं पतद्ग्रहं दद्यात् तथाप्रकारं पतद्ग्रहं पात्रमप्रासुकं
SR No.002207
Book TitleAcharang Sutram Part 02
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherAatm Gyan Shraman Shiv Agam Prakashan Samiti
Publication Year2003
Total Pages562
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy