SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ जे किर भवसिद्धीया, परित्त-संसारिआ य भविआ य | ते किर पढंति धीरा, छत्तीसं उत्तरज्झयणे || १ ॥ जे हुंति अभवसिद्धीया, गंथिअ-सत्ता अणंतसंसारा | ते संकिलिट्ठ-कम्मा, अभविय उत्तरज्झाए || २ || तम्हा जिणपन्नत्ते अणंतगमपज्जवेहि संजुत्ते । अज्झाए जहा जोगं, गुरुपसाया अहिज्जिज्जा || ३ || व्याख्या—ये इत्यनिर्दिष्टनिर्देशे किल इति सम्भावने भवसिद्धिकाः भव्याः परीतः प्राग्वत् परिमितः स चासौ संसारश्च तद्वन्तः परीत्तसांसारिकाः (अत इनिठनौ' (पा० ५/२/११५) इति मत्वर्थीयष्ठ्न । कोऽर्थः ? तथा भव्यत्वाक्षिप्तप्रत्यासन्नीभूतमुक्तयः भव्याः सम्यग्दर्शनादिगुणयोग्याः भिन्नग्रन्थयः इति योऽर्थः उभयत्र च समुच्चये इति व्यवच्छेदफलत्वाद वा वाक्यस्य, त एव किल परोक्षाप्तसूचकः पठति—अधीयते, धीराः प्राग्वत् कानि ? इत्याह 'छत्तीसं ति' षट्त्रिंशत् 'उत्तराध्ययनानि' विनयश्रुतादीनि । भवसिद्धिकादीनामेतत् पाठफलस्य सम्यग्-ज्ञानादेः सद्भावेन निश्चयतरतत्पाटसंभवः, अन्येषां व्यवहारतः एवेत्येवमभिधानम्। उक्तमेवार्थं विनेयानुग्रहाय व्यतिरेक्तः आह—ये भवन्ति अभवसिद्धयः-अभव्याः प्राग्वत् वचनव्यत्ययः, ग्रन्थि-उक्तरूपस्तदयोगात् ग्रन्थयस्त एव ग्रन्थिकास्ते च ते सत्त्वाश्च ग्रन्थिकसत्त्वाः, अभिन्नग्रन्थय इत्यर्थः। तथा अनन्तः–अपर्यवसितः संसार एषामित्यनन्तसंसारा ये न कदाचिन्मुक्ति सुखमवाप्स्यंति अभव्याः “भव्वावि ते अणंते' इत्यादिवचनतो भव्या वा. ते संक्लिष्टानि - अशुभानि कर्माणि-ज्ञानावरणीयादीनि एषामिति संक्लिष्टकर्माण - इत्याह 'अभविय' त्ति सूत्रत्वात् अभव्याः अयोग्याः 'उत्तरज्झाय' त्ति वचनव्यत्ययादुत्तराध्यायेषु उत्तराध्यायविषये अध्ययन इति गम्यते। यद्वा—'उत्तर' त्ति प्राग्वत, पदैकदेशेपि पददर्शनादुत्तराध्ययनानि तेंषामध्यायः पाठः उत्तराध्यायरतस्मिन्, तदनेन विशिष्टयोग्यतायामेव तात्त्विकैतदध्ययनसद्भावलक्षणं माहात्म्यमुक्तमिति गाथाद्वयार्थः। यतश्चैवमिति माहात्म्यवन्त एवम् उत्तराध्यायास्ततो यद्विधेयं तदाह—तस्माज्जिनैः श्रुतजिनादिभिः प्ररूपिताः प्रज्ञप्तास्तान् अनन्ताश्च ते गमाश्च अर्थपरिच्छित्तिप्रकाराः, पर्यवाश्च शब्दपर्यवार्थपर्यवरूपाः, अनन्तगमपर्यवास्तैः, समिति-सम्यग् भृशं वा युक्ताः, संयुक्तास्तान् अध्यायान् प्रक्रमादुत्तराध्यायान् ‘जहा जोगं'ति, योग-उपधानादिरुचितव्यापारस्तदनतिक्रमेण यथायोगं गुरुणां प्रसादः—चित्तप्रसन्नता गुरुप्रसादस्तस्माद्धेतोः, अधीयीत नत्वेतदध्ययनयोग्यतावाप्तौ प्रमादं कुर्यादिति भावः। गुरुप्रसादादिति चाभिधानमध्ययनार्थिनाऽवश्यं गुरवः प्रसादनीयाः तदधीनत्वात्तस्येति ख्यापनार्थमिति गाथार्थः। ___ भावार्थ—जो भवसिद्धिक जीव हैं और मुक्ति-गमन के आसन्नभूत हो रहे हैं तथा जिनका संसार- पर्यटन बहुत अल्प रह गया है, वे ही भव्यात्मा उत्तराध्ययन के ३६ अध्ययनों को भाव-पूर्वक श्री उत्तराध्ययन सूत्रम् / 34 । प्रस्तावना
SR No.002202
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherJain Shastramala Karyalay
Publication Year2003
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy