SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ४७६ विवक्षितो हि घटः स्वद्रव्यक्षेत्रकालभावैर्विद्यते, परद्रव्यक्षेत्रकालभावैश्च न विद्यते, तथाहि - स घटो यदा सत्त्वज्ञेयत्वप्रमेयत्वादिधर्मैश्चिन्त्यते तदा तस्य सत्त्वादयः स्वपर्याया एव सन्ति, न तु केचन परपर्यायाः, सर्वस्य वस्तुनः सत्त्वादीन्धर्मानधिकृत्य सजातीयत्वाद्विजातीयस्यैवाभावान्न कुतोऽपि व्यावृत्तिः । द्रव्यतस्तु यदा पौद्गलिको घटो विवक्ष्यते, तदा स पौद्गलिकद्रव्यत्वेनाऽस्ति, धर्माधर्माकाशादिद्रव्यत्वैस्तु नास्ति । अत्र पौद्गलिकत्वं स्वपर्यायः, धर्मादिभ्योऽनन्तेभ्यो व्यावृत्तत्वेन परपर्याया अनन्ता:, जीवद्रव्याणामनन्तत्वात्, पौद्गलिकोऽपि स घटः पार्थिवत्वेनास्ति न पुनराप्यादित्वैः, अत्र पार्थिवत्वं स्वपर्यायः आप्यादिदव्येभ्यस्तु बहुभ्यो व्यावृत्तिः ततः परपर्याया अनन्ताः । एवमग्रेऽपि स्वपरपर्यायव्यक्तिर्वेदितव्या । पार्थिवोऽपि स धातुरूपतयास्ति न पुनर्मृत्त्वादिभिः । धातुरूपोऽपि स सौवर्णत्वेनाऽस्ति न पुना राजतत्वादिभिः । सौवर्णोऽपि स घटितसुवर्णात्मकत्वेनास्ति न त्वघटितसुवर्णात्मकत्वादिना । घटितसुवर्णात्मापि देवदत्तघटितत्वेनास्ति न तु यज्ञदत्तादिघटितत्वादिना । देवदत्तघटितोऽपि पृथुबुध्नाद्याकारेणास्ति न पुनर्मुकुटादित्वेन । पृथुबुध्नोदराद्याकारोऽपि वृत्ताकारेणास्ति नावृत्ताकारेण । वृत्ताकारोऽपि स्वाकारेणास्ति न पुनरन्यघटाद्याकारेण । स्वाकारोऽपि स्वदलिकैरस्ति न तु परदलिकैः । एवमनया दिशा परेणापि स येन येन पर्यायेण विवक्ष्यते स तस्य स्वपर्यायः, तदन्ये तु परपर्यायाः । तदेवं द्रव्यतः स्तोकाः स्वपर्यायाः, परपर्यायास्तु व्यावृत्तिरूपा अनन्ता, अनन्तेभ्यो द्रव्येभ्यो व्यावृत्तत्वात् । । તર્કરહસ્યદીપિકા 331. शंst- खेड वस्तुमां (परस्पर विरोधी) अनन्त धर्मो डेवी रीते प्रतीत थ શકે અર્થાત્ હોઈ શકે ? એક વસ્તુને અનેકરૂપ માનવામાં સ્પષ્ટ વિરોધ છે. જૈન ઉત્તર- સ્વ-૫૨ દ્રવ્યની અપેક્ષા રાખીને ઉત્પન્ન થનારા ક્રમભાવી અને સહભાવી અનન્ત ધર્મોથી વ્યાસ બધી પ્રમાણરૂપ અને પ્રમેયરૂપ વસ્તુઓ એક અનેકાન્ત સ્વભાવવાળી સર્વત્ર સર્વદા સૌ પ્રમાતાઓના અનુભવમાં આવે છે. અમે તે સર્વપ્રસિદ્ધ અનેકાન્તાત્મકતાને સોનાના ઘડાના ઉદાહરણથી વિસ્તારપૂર્વક સમજાવીએ છીએ. અમુક ઘડો પોતાના દ્રવ્યનો બનેલો છે, પોતાના સ્થાને છે, પોતાના સમયમાં છે अने पोताना पर्यायवाणी छे, जीभ (५२) द्रव्य-क्षेत्र - डास - लावनी दृष्टिथी नथी. પ્રસ્તુત ઘડો સુવર્ણનો છે, માટીનો નથી. તે ઘડો સામેના ઓરડામાં છે, ઓસરીમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy