________________
33
૩૬૩ મતો જ્ઞાન અનેક ઝઘડાની જડ છે. જ્ઞાનથી અહંકાર અને અહંકારથી રાગ-દ્વેષ જન્મે છે, એટલે જ્ઞાનથી સંસાર વૃદ્ધિ જ પામે છે. વળી જ્ઞાનના સ્વરૂપનો સમ્યફ નિશ્ચય કરવો શક્ય નથી. જ્ઞાન અનર્થનું મૂળ છે, તેનાથી કદી કોઈનું પણ કલ્યાણ થતું નથી. તેથી એ નિષ્કર્ષ નીકળ્યો કે અજ્ઞાન જ શ્રેયસાધક છે, કલ્યાણકારી છે.
36. ते चाज्ञानिकाः सप्तषष्टिसंख्या अमुनोपायेन प्रतिपत्तव्याः । इह जीवाजीवादीन् पदार्थान् क्वचित् पट्टकादौ व्यवस्थाप्य पर्यन्त उत्पत्तिः स्थाप्यते । तेषां च जीवादीनां नवानां प्रत्येकमधः सप्त सत्त्वादयो न्यस्यन्ते । तद्यथा- सत्त्वम्, असत्त्वम्, सदसत्त्वम्, अवाच्यत्वम्, सदवाच्यत्वम्, असदवाच्यत्वम्, सदसदवाच्यत्वं चेति । तत्र सत्त्वं स्वरूपेण विद्यमानत्वम् । असत्त्वं पररूपेणाविद्यमानत्वम् । सदसत्त्वं स्वरूपपररूपाभ्यां विद्यमानाविद्यमानत्वम् । तत्र यद्यपि सर्वं वस्तु स्वपररूपाभ्यां सर्वदैव स्वभावत एव सदसत्, तथापि क्वचित्किचित्कदाचिदुद्भूतं प्रमात्रा विवक्ष्यते, तत एवं त्रयो विकल्पा भवन्ति । तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकेन शब्देन वक्तुमिष्यते तदा तद्वाचकः शब्दः कोऽपि न विद्यत इत्यवाच्यत्वम् । एते चत्वारो विकल्पाः सकलादेशा इति सकलवस्तुविषयत्वात् ।४। यदा त्वेको भाग: सनपरश्चावाच्यो युगपद्विवक्ष्यते तदा सदवाच्यत्वम् । यदा त्वेको भागोऽसन्नपरश्चावाच्यस्तदासदवाच्यत्वम् । यदा त्वेको भागः सन्नपरश्चासन्नपरतरश्चावाच्यस्तदा सदसदवाच्य[त्व ]मिति । न चैतेभ्यः सप्तभ्यो विकल्पेभ्योऽन्यो विकल्पः संभवति, सर्वस्यैतेष्वेवान्तर्भावात् । ततः सप्त विकल्पा उपन्यस्ताः । सप्त च विकल्पा नवभिर्गुणिता जातास्त्रिषष्टिः । उत्पत्तेश्चत्वार एवाद्या विकल्पाः । तद्यथा- सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति । शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्रासंभवीति नोक्तम् । एते चत्वारो विकल्पास्त्रिषष्टिमध्ये प्रक्षिप्यन्ते ततः सप्तषष्टिर्भवन्ति । ततः 'को जानाति जीवः सन्' इत्येको विकल्पः, न कश्चिदपि जानाति, तद्ग्राहकप्रमाणाभावादिति भावः । ज्ञातेन वा किं तेन प्रयोजनम्, ज्ञानस्याभिनिवेशहेतुतया परलोकप्रतिपन्थित्वात् । एवमसदादयोऽपि विकल्पा भावनीयाः । 'उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्य वा' इति को जानाति, ज्ञातेन वा न किंचिदपि प्रयोजनमिति ।
36. 20 मशानवाहीमोना स स मे ॥ प्रमाणे सम४१। सोभे - ओछ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org