________________
तृतोय सगं नतेऽर्तीनां नियतमवरावावरीमा तपस्या यस्योदर्कः सततसुखकृत्कृत्यमध्यं सतां तत् । दामकर्मप्रसितभविनो मोचयिष्ये चरीन् वा नेमिः प्रत्यादिशदिति हरि भूरि निर्बन्धयन्तम् ॥४॥ नर्तेऽौनां० हे जलधर ! नेमिः श्रीनेमिनाथः हरि कृष्णं प्रति इति प्रत्यादिशत् इति उवाच । किंरूपं हरि-भूरि प्रचुरं यथा स्यात् तथा निबन्धयन्तम् आग्रहं कुर्वाणं। इतोति किं-हे कृष्ण ! इमां तपस्यां दीक्षां ऋते विना नियतं निश्चितम् अपरा काचित् अर्तीनां पीडानां न अवावरी स्फेटका न वर्तते । हे कृष्ण ! सतां सत्पुरुषाणां तत् कृत्यम् अध्यं श्लाघनीयं यस्य कृत्यस्य उदर्कः तत् भवं फलं सततसुख कृत् भवति निरन्तरसौख्यकारकं भवति । हे कृष्ण ! अतः कारणात् अहं चरीन् वा अत्र वा शब्द इवार्थे चरीन् इव पूर्वम् उक्त पशून् इव दामत्कर्मप्रसितभविन: दामन्ति दाम इवाचरन्ति यानि कर्माणि तैः प्रसितान प्रसितान् बद्धान् प्राणिनः संसारिणो जीवान् मोचयिष्ये मोचयिष्यामि ॥४८॥
बार-बार आग्रह करते हुए श्रीकृष्ण को श्रीनेमि ने यह कहकर मना कर दिया कि हे कृष्ण ! इस तपस्या (दीक्षा) के बिना स्त्री निश्चित ही बाधाओं को दूर नहीं कर सकती। सज्जनों का वही कार्य प्रशंसनीय होता है जिसका परिणाम सदैव सुखकारी हो। मैं कर्मपाश से बँधे हए समस्त प्राणियों को इन्हीं पशुओं के समान मुक्त करूंगा ।। ४८ ॥
तस्मिन्नेवं व्यसितवति प्रश्लथप्रेमपाशा नाशाश्वासच्छलपरिगलज्जीविता यादवौघाः । सोरस्ताडं सुगुरु रुरुर् रोदसी रोदयन्तः
प्रत्युत्पन्नप्रतिरवमिषान्मुष्ट सर्वस्ववत्ते ॥ ४९ ॥ तस्मिन्नेवं ० हे मेघ ! ते यादवौधाः यादवसमूहाः सोरस्ताडं वक्षस्थलताडनसहितं यथा स्यात् तथा सुगुरु सुष्ठु अत्यथं गुरु गरिष्ठं यथा स्यात् तथा रुरुदुः रोदनं चक्रुः । क्वसति-तस्मिन् श्रीनेमिनाथे एवं व्यवसितवतिसति अहं एतां न परिणेष्ये किन्तु दोक्षामेव ग्रहीष्यामि इति कृतनिश्चये सति । किरूपाः यादवौघाःप्रश्लथप्रेमपाशाः प्रकर्षेण श्लथः श्लथीभूतः प्रेमपाशाः स्नेहबन्धनं येषां ते, तथा नाशाश्वासच्छलपरिगलज्जीविताः नाशायां श्वासच्छली भवति गलत् परिक्षरत् जीवितं जीवितव्यं येषां ते, तथा प्रत्युत्पन्नप्रतिरवमिषात् प्रत्युत्पन्नाः उत्पन्नाः ये प्रतिरवाः प्रतिशब्दाः तेषाम् मिषात् छलात् रोदसी भूमिव्योम्बोः अन्तरालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org