SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ The Tirthas of Pārsvanātha in Gujarat 147 had been interred for safety, the temple though was destroyed and stood as a very battered ruin till some decades ago. The images, however, had been recovered and re-established in a new building that was built in A.D. 1946. The glory of this medieval tirtha has been, to some extent, revived. श्रीमुनिचन्द्रसूरिप्रणीतप्रबन्धगतं श्रीशङ्केश्वर-पार्श्वनाथ-स्तवनम् । समस्तकल्याणनिधानकोशं वामाङ्गकुक्ष्येकमृणालहंसम् । अलङ्कतेक्ष्वाकुविशालवंशं वन्दे सदा शङ्खपुरावतंसम् ॥१॥ आराधितः श्री ऋषभस्य काले विद्याधरेन्द्रेण नमीश्वरेण । पूर्व हि वैताढयगिरौ जिनं तं वन्दे सदा शङ्खपुरावतंसम् ॥२॥ यः पूजितः पन्नगनायकेन पातालभूमौ भवनाधिपेन । कालं कियन्तं जिननायकं तं वन्दे सदा शङ्खपुरावतंसम् ॥३॥ यदा जरासन्धजयोद्यतेन कृष्णेन नेमीश्वरशासितेन । पातालतो बिम्बमिदं तदानीमानीय संस्थापितमेव तीर्थम् ॥ ४॥ जराऽऽर्तभूतं स्वबलं विलोक्य यत्स्तात्रपीयूषजलेन सिक्तम् । सजीकृतं तत्क्षणमेव सर्वं वन्दे सदा शङ्खपुरावतंसम् ॥५॥ पञ्चाशदादौ किल पञ्चयुक्ते एकादशे वर्षशते व्यतीते ।। निवेशितः सज्जनश्रेष्ठिनाऽयं वन्दे सदा शङ्खपुरावतंसम् ॥६॥ काले कलौ कामगवी प्रणष्टा चिन्तामणिः कल्पतरूञ्च नष्टः । धत्ते ह्यसौ तत्प्रतिहस्तकत्वं वन्दे सदा शङ्खपुरावतंसम् ॥७॥ प्रभुतरोगेण विनष्टदेह आराध्य यं दुर्जनशल्यदेवः । चकार देहं मदनस्य तुल्यं वन्दे सदा शङ्खपुरावतंसम् ॥८॥ राज्यार्थिनां राज्यसुखप्रदाता सुतार्थिनां सन्ततिदायको यः । नेत्रार्थिनां लोचनदोऽसि नित्यं वन्दे सदा शङ्खपुरावतंसम् ॥९॥ इति स्तुतः श्रीमुनिचन्द्रसूरिणा कृपाकरः शङ्खपुरावतार । प्रबन्धकादौ प्रणतासभाजां प्रचच्छ नित्यं निजपादसेवाम् ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002108
Book TitleArhat Parshva and Dharnendra Nexus
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages204
LanguageEnglish, Hindi
ClassificationBook_English, Articles, History, Art, E000, & E001
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy