________________
પર
Jain Education International
परिशिष्ट 'अ'
( उपजाति)
पद्मप्रभः पद्म-पलाश - लेश्यः पद्मालयाऽऽलिङ्गितचारुमूर्तिः । बभौ भवान् भव्य-पयोरुहाणां पद्माकराणामिव पद्मबन्धुः ॥ २६ ॥
बभार पद्मां च सरस्वतीं च
भवान् पुरस्तात्प्रतिमुक्तिलक्ष्म्याः । सरस्वतीमेव समग्र - शोभां
सर्वज्ञ - लक्ष्मी - ज्वलितां विमुक्तः ॥ २७॥
शरीर - रश्मि - प्रसरः प्रभोस्ते
बालार्क - रश्मिच्छविराऽऽलिलेप ।
नरामassकीर्ण - सभां प्रभा वा शैलस्य पद्माभमणेः स्वसानुम् ॥२८॥
नभस्तलं पल्लवयन्निव त्वं
નિગ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
सहस्रपत्राऽम्बुज- गर्भचारैः ।
पादाम्बुजैः पातित-मार-दर्पो
भूमौ प्रजानां विजहर्थ भूत्यै ? ॥२९॥
चन्द्रप्रभं चन्द्र- मरीचि - गौरं
चन्द्रं द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्द्यं महतामृषीन्द्रं
जिनं जित- स्वान्त - कषाय-बन्धम् ॥३६॥
यस्याङ्ग- लक्ष्मी - परिवेश-भिन्नं तमस्तमोरेरिव रश्मिभिन्नम् ।
ननाश बाह्यं बहु मानसं च ध्यान- प्रदीपाऽतिशयेन भिन्नम् ॥३७॥
( वंशस्थ )
न शीतलाश्चन्दनचन्द्ररश्मयो
न गाङ्गमम्भो न च हारयष्टयः ।
For Private & Personal Use Only
www.jainelibrary.org